TBD.
दीर्घात् छे तुकिति वर्तते। पदान्ताद् दीर्घात् परो यः छकारः तस्मिन् पूर्वस्य तस्य एव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति। कुटीच्छाया, कुटीछाया। कुवलीच्छाया, कुवलीछाया। विश्वजनादीनां छदसि वा तुगागमो भवति इति वक्तव्यम्। विश्वजनच्छत्रम्, विश्वजनछत्रम्। नच्छायां करवो ऽपरम्। न छायां करवो ऽपरम्।
TBD.
–
–
276 पदान्ताद्वा। प्रकृतेन दीर्घेण पदविशेषणात्तदन्तविधिलाभेनेष्टसिद्धावप्यन्तग्रहणं पदान्तस्यैव तुग्यथा स्यात्पदस्य मा भूदित्येतदर्थम्। अन्यथा पदविधित्वात्समर्थपरिभाषोपस्थितौ समर्थेषु `लक्ष्मीच्छाये'त्यादिष्वेव स्यात्, `तिष्ठतु कुमारी, छत्रं हर देवदत्ते'त्यत्र न स्यात्, असामथ्र्यात्। एवं `न पदान्ताट्टो'रिति सूत्रे `पदाट्टो'रिति वक्तव्येऽन्तग्रहणं `दुष्टाः षट्', `सन्तस्त्रय' इत्यत्रापि ष्टुत्वनिषेधार्थमित्याहुः।\र्\निति तत्त्वबोधिन्यां हल्सन्धिप्रकरणम्।
दाना। यद्यपि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वाऽऽपादनमेव दानं, तथापि प्रयोगमनुसृत्य व्याचष्टे– प्रक्षेप इति। वैध इति। आहवनीयादौ। इविष इति। विधिबोधितद्रव्यस्येत्यर्थः। स्वभावादिति। तेन आहवनीये पुरोडाशे प्रक्षेप्तव्ये प्रमादेन कोपेन [कामेन] वा पाषाणः प्रक्षिप्तः, पुरोडाशो वा गर्तादौ, स तु प्रक्षेपो न होम इति ज्ञेयम्। परस्मपैदिन इति। तेन `होष्ये' इति केषांचित्प्रयोगोऽसाधुरेव। `स्मराग्नौ जुह्वानाः' इत्यानन्दलहरीप्रयोगस्तु साधुरेव, शानचोऽप्रवृत्तावपि चानशन्तत्वात्।
TBD.