Table of Contents

<<6-1-74 —- 6-1-76>>

6-1-75 दीर्घात्

प्रथमावृत्तिः

TBD.

काशिका

छे तुकिति वर्तते। दीर्घात् परो यः छकारः तस्मिन् पूर्वस्य तस्य एव दीर्घस्य तुगागमो भवति। ह्रीच्छति। म्लेच्छति। अपचाच्छायते। विचाच्छायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

318 तदाह–दीर्घादित्यादिना। `उभयनिर्देशे पञ्चमीनिर्देशो बलीया'निति छकारस्य तुगन्तावयवः स्यात्। ततश्च छिदिधातोर्यङि, द्वित्वे, हलादिशेषे अभ्यासचर्त्वे `गुणो यङ्लुको'रिति अभ्यासगुणे, तङि, चे-छिद्यते इति स्थिते, छकारस्यान्त्यवयवे तुकि, तस्य चुत्वेन चकारे सति तत्पूर्वस्य छकारस्य खरि चेति चर्त्वेन चकारे सति, चेच्चिद्यत इति एकारोत्तरद्विचकारकमेव रूपं स्यात्, छकारो न श्रूयेतेत्यत आह– दीर्घस्यायं तुगिति। ततश्च छकारात्प्राग्दीर्घस्योपरि तुकि, जश्त्वचुत्वचर्त्वेषु चेच्छिद्यत इति भवति। छकारस्य खर्परकत्वाभावाच्चर्त्वं न भवतीति चकाराच्छकारश्रवणं निर्बाधम्। ननु दीर्घस्यायं तुगिति कुत इत्यत आह–सेनेति। उत्तरसूत्रे पदान्तदीर्घाच्छे तुग्विकल्पविधानादिदं सूत्पमुपदान्तविषयमित्यभिप्रेत्य उदाहरति- चेच्छिद्यत इति। (147) पदान्ताद्वा।6।1।76। `दीर्घात्' इत्यनुवर्तते। तदाह–दीर्घात् पदान्तादित्यादिना। अयमपि तुग्दीर्घस्यैव नतु छस्य। उक्तज्ञापकात्॥\र्\निति बालमनोरमायां हल्सन्धिप्रकरणम्।

दानाऽदनयोरिति। दाने अदने चेत्यर्थः। भाष्यमिति। `तृतीया च होश्छन्दसी'ति सूत्रस्थ'मिति शेषः। ननु यदि दानमिह प्रसिद्धं विवक्षितं तर्हि `ब्राआहृमाय गां ददाती'त्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह–दानं चेह प्रक्षेप इति। नन्वेवमपि कूपे घटं प्रक्षिपति, आहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत आह– स चेति। सः = प्रक्षेपो, विधिबोधिते आधारे = आहवनीयादौ पुरोडाशादिहविष इति लभ्यते इत्यन्वयः। कुत इत्यत आह— स्वभावादिति। अनादिसिद्धलोकव्यवहारादित्यर्थः। तथाच विधिबोधिते आधारे विधिबोधितस्य देवतायै त्यज्यमानसय् हविषः हुधातुर्वर्तते इति फलितम्। एतच्च पूर्वमीमांसायां तृतीये `सर्वप्रदानं हविषस्तदर्थत्वा'दित्यधिकरणेऽध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः।

तत्त्वबोधिनी

119 सेनासुरेति। यदि हि छस्य तुक्?स्यात्तर्हि छस्य चर्त्वे सति चद्वयं स्यात् संनिपातपरिभाषया चर्त्त्वाऽप्रवृत्तौ तु छकारोपरि चकारः श्रूयतेति भावः।

Satishji's सूत्र-सूचिः

TBD.