TBD.
वा इति वर्तते सेटिति च। उश्च इश्च वी। वी उपधेयस्य स व्यौपधः। उकारौपधादिकारौपधच् च धातो रलन्ताद्धलादेः परः संश्च क्त्वा च सेटौ व कितौ भवतः। द्युतित्वा, द्योतित्वा। दिद्युतिषते, दिद्योतिषते। लिखित्वा, लेखित्वा। लिलिखिषति, लिलेखिषति। रलः इति किम्? देवित्वा, दिदेविषति। व्युपधातिति किम्? वर्तित्वा, विवर्तिषते। हलादेः इति किम्? एषित्व, एषिषिष्ति। सेटित्येव। भुक्त्वा, बुभुक्षते।
TBD.
–
444 रलो। क्त्वासनाविति। चकारेण पूङः क्त्वा चे'त्यतः क्त्वाया अनुकर्षादिति भावः। सेटाविति। `न क्त्वा सेडि'त्यतस्तदनुवृत्तेरिति भावः। वा किताविति। `नोपधात्थफान्ताद्वे'त्यतः `असंयोगाल्लिट्कि'दित्यतश्च तनदुवृत्तेरिति भावः। दिद्युतिषते इति। `द्युत दीप्तौ' अनुदात्तेत्। सनि द्वित्वे कित्त्वात् `द्युतिस्वाप्यो'रित्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः। सनः कित्त्वाऽभावे आह– दिद्योतषते इति। `पूर्ववत्सनः' इत्यात्मनेपदम्। एषिषिषतीति। इष्?धातोः सन्। इट्। हलादित्वाऽभावेन कित्तवाऽभावाद्गुणे एष् इस ति इति स्थिते `अजादेर्द्वितीयस्ये'ति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम्। नन्विह सत्यपि कित्त्वे नित्यत्वात्परमपि गुणं बाधित्वा षिसित्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाऽभावादेव गुणाऽप्रसक्तेर्हलादेरिति व्यर्थमित्यत आह – इह नित्यमपि द्वित्वं गुणेन बाध्यते इति। कुत इत्यत आह- - उपधाकार्यं हि द्वितवात्प्रबलमिति। तच्च कुत इत्यत आह– ओणेरिति। ओणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः। तथाहि – ओणृधातोण्र्यन्ताल्लुङि चङि `णौ चङ्युपधायाः' ह्यस्वस्य `नाग्लोपिशास्वृदित#आ' मिति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम्। अत्र उपधाह्यस्वनिषेधार्थमोणेरृदित्करणम्। उपधाह्यस्वे कृते तु उण् इ अ त् इति स्थिते णीत्यस्य द्वित्वे मा भवानुणिणदिति स्यात्, ओकारो न श्रूयेयेति स्थितिः। यदि तु नित्यत्वादुपधाह्यस्वत्प्रागेव ओण् इ अ त् इत्यस्यां दशायां द्वित्वं स्यात्तदा ओकारस्य उपधात्वाऽभावादेव ह्यस्वाऽप्रसक्तेस्तन्निषेदार्थमृदित्करणमनर्थकं स्यात्.तस्मादुपधाह्यस्वात्मकमुपधाकार्यं द्वित्वात्प्रबलमिति विज्ञायते इत्यर्थः। ननु भवतु उपधाह्यस्वो द्वित्वात्प्रबलः, प्रकृते तु उपधागुणः कथं द्वित्वात्प्रबलः स्यादित्यत आह– सामान्यापेक्षेति। उपधाह्यस्वस्य उपधाह्यस्वस्य उपधाकार्यत्वेन रूपेण द्वित्वात्प्राबल्यविज्ञानादित्यर्थः। वस्तुतस्तु `णौ चङ्युपधायाः' इति सूत्रे`यदमोणिमृदितं करोति तज्ज्ञापयति द्विर्वचनाद्ध्रस्वत्वं बलीय' इति विशिष्य उपधाह्यस्वग्रहणात्सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम्।
387 रलो व्युपधा। `न क्त्वा से'डित्यतः सेडिति वर्तते। चकारेण क्त्वायाः सङ्ग्रहः। `असंयोगा'दित्यतः किदिति, `नोपधा'दित्यतो वेति चानुवर्तते। तदाह- क्त्वासनावित्यादि। सेट् किम् ?। भित्त्वा। छित्त्वा। बुभुक्षते।
वृत्तिः इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । When used with the augment “इट्”, the affixes “क्त्वा” and “सन्” are optionally treated as “कित्” (having ककारः as a इत्) when they follow a verbal root which begins with a constant and ends in a रल् letter and has either a इवर्णः (इकारः/ईकारः) or a उवर्णः (उकारः/ऊकारः) as its penultimate letter.
उदाहरणम् – लिलिखिषति/लिलेखिषति is a desiderative form derived from √लिख् (लिखँ गत्यर्थः १. १७०, लिखँ अक्षरविन्यासे ६. ९२)
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
“कित्”-पक्षे।
लिख् + सन् 3-1-7
= लिख् + स 1-3-3, 1-3-9
= लिख् + इट् स 7-2-35, 1-1-46
= लिख् + इस 1-3-3, 1-3-9. Note: By 1-2-26 सन् is a कित् optionally. Therefore 1-1-5 stops 7-3-86
= लिख् लिख् + इस 6-1-9
= लि लिख् + इस 7-4-60
= लिलिखिष 8-3-59
“कित्”-अभावे
लिख् + सन् 3-1-7
= लिख् + स 1-3-3, 1-3-9
= लिख् + इट् स 7-2-35, 1-1-46
= लिख् + इस 1-3-3, 1-3-9. Note: By 1-2-26 सन् is a कित् optionally. Here we consider the case when it is not कित्।
= लेख् + इस 7-3-86
= लेख् लेख् + इस 6-1-9
= ले लेख् + इस 7-4-60
= लि लेख् + इस 7-4-59, 1-1-48
= लिलेखिष 8-3-59
“लिलेखिष” gets धातु-सञ्ज्ञा by 3-1-32
लिलिखिष/लिलेखिष + लँट् 3-2-123 = लिलिखिषति/लिलेखिषति 1-3-62, 1-3-78