Table of Contents

<<1-1-47 —- 1-1-49>>

1-1-48 एच इग्घ्रस्वाऽदेशे

प्रथमावृत्तिः

TBD.

काशिका

एचो ह्रस्वाऽदेशे कर्तव्ये इकेव ह्रस्वो भवति, न अन्यः। रैअतिरि। नौअतिनु। गोउप गु। एचः इति किम्? अतिखट्वः। अतिमालः। ह्रस्वाऽदेशे इति किम्? दे3वदत्त। देवद3त्त।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

251

बालमनोरमा

942 अथ ओदन्ताः। प्रकृष्टा द्यौर्यस्येति बहुव्रीहौ प्रद्योशब्दस्य `ह्यस्वो नपुंसके' इति ह्यस्वः प्राप्नुवन्नेचो ह्यस्वाऽभावात्तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, लृ, इत्येतेषां ह्यस्वानामन्तरतमत्वाऽभावादन्तरस्थानसाम्याश्रयेण अवर्णादिषु यस्य कस्यचिदनियमेन पर्यायेण वा प्राप्ताविदमारभ्यते–एच इक्। आदिश्यते इत्यादेशः। कर्मणि घञ्। तस्य ह्यस्वपदेन सह कर्मधारयः विशेष्यस्यार्षः पूर्वनिपातः। आदेश इति निर्धारणसप्तमी। सौत्रमेकवचनम्। तदाह–आदिश्यमानेष्वित्यादिना। `मध्ये' इत्यपपाठः, तद्योगे षष्ठ\उfffदा एवौचित्यात्। इगेवेति। तेन अकारव्यावृत्तिः फलतीति भावः। यद्यपीकश्चत्वारः, एचोऽप्येवं, तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति। न ह्रयमपूर्वविधिः, किन्तु नियमविधिः। यताप्राप्तमेव नियम्यते। एचां हि पूर्वभागोऽवर्णसदृशः। उत्तरभागस्तु इवर्णोवर्णसदृशः। तत्पर पूर्वभागसादृश्यमवर्णस्यास्ति। तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृस्यादोकारस्य औकारस्य च उवर्ण इति व्यवस्था न्यायप्राप्ता। यताप्राप्तमेव च नियम्यत इति न यतासङ्ख्यम्। ततश्च प्रद्योशब्दे ओकारस्य उकारो ह्यस्व इत्यभिप्रेत्योदाहरति–प्रद्यु इत्यादि। ननुं पुंनपुंसकयोः प्रकृष्टस्वर्गवत्त्वमेकमेव प्रवृत्तिनिमित्तमिति टादौ पुंवत्त्वविकल्पः कुतो नेत्यत आह–इह न पुंवदिति। कुत इत्यत आह–यदिगन्तमिति। प्रद्योशब्द ओदन्तः पुंसि। प्रद्युशब्दस्तु उदन्तो नपुंसके। तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाऽभावान्न पुंवत्वमित्यर्थः। केचित्तु पुंसि यः प्रद्योशब्द ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्यस्वान्तत्वेऽपि एकदेशविकृतस्याऽनन्यत्वात्, अतः पुंवत्वविकल्पोऽस्त्येवेत्याहुः। एवमग्रेऽपीति। प्ररि, सूवु इत्यादावपीत्यर्थः। इत्योदन्ताः। अथ ऐदन्ताः। एकारान्तस्योदाहरणं तु स्मृत इः कामो येन स स्मृतेः। सु=शोभनः स्मृतेर्यस्य तत् `सुस्मृति' इत्यादि बोध्यम्। प्ररीति। प्रकृष्टो रा=धनं यस्य इति बहुव्रीहौ प्ररैशब्दः। तस्य नपुंसकह्यस्वत्वेन इकारः। सुटि वारिवत्। सोर्लुप्तत्वात् `रायो हली'त्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रद्युशब्दवत्। भ्यामादौ हलि विशेषमाह–रायो हलीत्यात्वमिति। ननु रैशब्दस्य ऐदन्तस्य बिहितमात्वं कथमिदन्तस्येत्यत आह–एकदेशविकृकतस्यानन्यत्वादिति। आमि विशेषमाह–नुमचिरेति। नुटि `रायो हली'त्यात्वे प्रराणामित्यन्वयः। ननु प्ररि-आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वाद्धलादिविभक्त्यभावात्कथमात्वमित्यत आह–नुमचिरेति। पूर्वविप्रतिषेधान्नुमं बाधित्वा नुठ\उfffदात्वं निर्बाधमिति भावः। संनिपातेति। ह्यस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वाऽसंभवादिति भावः। ननु तर्हि ह्यस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकं `नामी'ति दीर्घं प्रति कथं निमित्तत्वमित्यत आह–नामीति दीर्घस्त्विति। इत्युक्तमिति। `रामशब्दाधिकारे' इति शेषः। इत्यैदन्ताः। अथ औदन्ताः। सु=शोभना नौर्यस्येति विग्रहे बहुव्रीहौ `ह्यस्वो नपुंसके' इति ह्यस्व उकार इति मत्वाह–सुनु इति। इत्यौदन्ताः॥ नपुंसकलिङ्गाः*


तत्त्वबोधिनी

815 एचः। आदिश्यत इत्यादेशः, ह्यस्वाश्चसावादेशश्च ह्यस्वादेशः। निर्धरणे सप्तमी, जातबेकवचनमतो व्यचष्टे—–आदिश्यमानेषु ह्यस्वेष्विति। एचां पूर्वभागोऽकारसदृशः, उत्तरस्तु इवर्णोवर्णसदृशः, तत्रोभयान्तरतमस्य ह्यस्वस्याऽभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथाच मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह—इगेव स्यादिति। आन्तरतम्यादेकारोकारयोरिकारः। ओकारौकारयोस्तूकारः। एकान्तस्योदाहरणं तु हः स्मृतो येन स स्मृतेः। शोभनः स्मृतेर्यस्य तत् `सुस्मृती'त्यादि। एतच्च परिभाषासूत्रमपार्थकम्। तथाच वार्तिककृतोक्तं–`सिद्धमेडः सस्थानत्वात्,' ऐचोश्चोत्तरभूयस्त्वा'दिति। अस्यार्थः–शब्दपरविप्रतिषेधेन एङौत्तरभादान्तरतमौ इउवर्णावेवेति सिद्धम्। `एचोश्चे'ति चकारो भिन्नक्रमः `उत्तरभूयस्त्वाच्चे'ति हेतोरन्तरं बोध्यः। अर्धमात्रा, अवर्णस्य, अध्यर्धमात्रा इवर्णोवर्णयोरित्युत्तरभागाधिक्यान्मल्लग्रामातदिवद्भूयसा व्यपदेशेनाऽपि इकारोकारौ भविष्यत इति। प्रद्युनेति। ननु प्रकृष्टस्वर्गवत्त्वादिकं यत्प्रवृत्तिनिमित्तं तत्पुंनपुंसकयोः समानमिति भाषितपुंस्कत्वात्पक्षे पुंवद्भावोऽत्र स्यादेवेत्याशङ्कायाम#आह—-यदिगन्तमिति। एतच्च `रा दाने'इति धातौ `अत्र् ब्राआहृआणकुल'मिति प्रकम्यमाधवेन स्पष्टीकृतम्। कथं तर्हि प्राचा `प्रद्यवा'`प्रराया'`सुनावे'त्युदाह्मतमिति चेदत्राहुः– प्रकृष्टम्वर्गवत्त्वादिप्रवृत्तिनिमित्तैक्यात्सुद्योशब्दो भाषितपुंस्कः, स एवेदानीमिगन्तः। तथाच प्रद्युशब्दोऽपि भाषितपुंस्क एव, एकदेशविकृतस्यानन्यन्यत्वात्, अतः पुंवद्भावो भवतीति। इत्थं च पुंवद्भाव एजन्तेषु क्लीबेषु माधवमते नास्ति, मतान्तरे त्वस्तीति बोध्यम्। प्ररीति। प्रकृष्टो रा यस्य तत् `प्ररि'इति। शोभमा नौर्यस्य तत्–`सुनु'। इति तत्त्वबोधिन्याम् अजन्ता नपुंसकलिङ्गाः।

Satishji's सूत्र-सूचिः

वृत्ति: आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only.

उदाहरणम् – अचूचुरत्/अचूचुरत derived from √चुर् (चुरँ स्तेये १०. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

चुर् + णिच् 3-1-25
= चुर् + इ 1-3-3, 1-3-7, 1-3-9
= चोरि 7-3-86. “चोरि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

चोरि + लुँङ् 3-2-110
= चोरि + ल् 1-3-2, 1-3-3, 1-3-9
= चोरि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= चोरि + ति 1-3-3, 1-3-9
= चोरि + त् 3-4-100
= चोरि + च्लि + त् 3-1-43
= चोरि + चङ् + त् 3-1-48
= चोरि + अ + त् 1-3-3, 1-3-7, 1-3-9
= चुरि + अ + त् 7-4-1, 1-1-48
= चुर् चुरि + अ + त् 6-1-11
= चु चुरि + अ + त् 7-4-60
= चू चुरि + अ + त् 7-4-94
= चू चुर् + अ + त् 6-4-51
= अट् चूचुरत् 6-4-71, 1-1-46
= अचूचुरत् 1-3-3, 1-3-9

Similarly अचूचुरत when a आत्मनेपदम् affix is used by 1-3-74.