Table of Contents

<<6-4-127 —- 6-4-129>>

6-4-128 मघवा बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

मघवनित्येतस्य अङ्गस्य बहुलं तृ इत्ययम् आदेशो भवति। मघवान्, मघवन्तौ, मघवन्तः। मघवन्तम्, मघवन्तौ, मघवतः। मघवता। मघवती। माघवतम्। न च भवति। मघवा, मघवानौ, मघवानः। मघवानम्, मघवानौ, मघोनः। मघोना, मघवभ्याम्, मघवभिः। मघोनी। माघवनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

290 मघवन्शब्दस्य वा तृ इत्यन्तादेशः. ऋ इत्..

बालमनोरमा

`\उfffदान्नुक्षन्पूषन्प्लीहनक्लेदन्?स्नेहन्मूर्धन्मज्जन्नर्यमन्वि\उfffदाप्सन्परिज्मन्मातरि\उfffदान्मघव'न्नित्युणादिसूत्रेण निष्पन्ने तस्मिन्मघवन्शब्दे विशेषमाह–मघवा बहुलम्। `अर्वणस्त्रासौ' इत्यतः `तृ' इत्यनुवर्तते। तच्च लुप्तप्रथमाकम्। `मघवे'ति तु षष्ठ\उfffद्र्थे प्रथमा। तदाह– मघवन्शब्देस्येत्यादिना। ऋ इदिति। `उपदेशेऽजनुनासिक इत्' इति ऋकार इत्संज्ञक इत्यर्थः। `ऋ' इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति। अलोऽन्त्यस्येति नकारस्य तकारः। सर्वादेशस्तु न, `नानुबन्धकृतमनेकाल्त्वमि'ति वचनात्। मघवत् स् इति स्थिते-।

तत्त्वबोधिनी

321 माधवेनोक्तमिति। इत्थं हि तदियो ग्रन्थः–`भसंज्ञायामल्लोपे उत्तरपदमनच्कं स्थानिवद्भावश्चाऽल्विधित्वान्ने' त्येकाजुत्तरपदत्वाऽभात् `प्रातिपदिकान्तनुम्विभक्तिषु चे'ति विकल्पो भवति–वृत्रघ्नो'`वृत्रघ्ण'इति। तद्भाष्येतिष किंच `अल्विधित्वान्ने'त्यसङ्गतम्। अल्बिघ्यर्थमेब `अचः परस्मि'न्नित्यस्यारम्भात्। तस्याऽप्रवृत्तौ युक्तयन्तरस्यैव वाच्यत्वात्। 'एकाजुत्तरे`त्यस्याऽप्रवृत्तावपि 'कुमति चे`ति सूत्रस्य दुर्वारत्वाद्वैकल्पिकत्वं णत्वस्याऽसङ्गतमेव। न च त्रिपद्यामपि पूर्वं प्रत्युत्तरशास्त्रस्याऽसिद्धत्वात् `एकाजुत्तरपदेः णः' `कुमति चे'त्यस्याऽप्रवृत्त्या `प्रातिपदिकान्ते'ति वैकल्पिकमेव णत्वं भवतीति वाच्यं, `न हि योगोऽसिद्धः किंतुपर्करणे प्रकरण'मिति भाष्यादौ स्पष्टत्वादिति दिक्। अनिनस्मन्ग्रहणानीति। अन्–`राज्ञे'त्यर्थवता, `साम्ना'इत्यनर्थकेन। इन्– `दण्डी'त्यर्थवता, `वाग्ग्मी'त्यनर्थकेन। अस्—`सुपया'इत्यर्थकेन। इह `स्त्रुरूभ्यां नुट् चे'त्यसुनस्तुट्। मन्–`सुशर्मे'त्यर्थवता, `सुप्रथिमा'इत्यमर्थकेन। एतच्च `इणः षीध्व'मिति सूत्रेऽङ्गग्रहणेनार्थवद्न्रहणपरिभाषाया अनित्यत्वज्ञापनात्सिद्धम्। `वेविषीध्व'मित्यत्र षीध्वंशब्दस्य ग्रहणं माभूदिति हि तत्राऽङ्गग्रहणं कृतम्। तच्चाऽपार्थकम्, अनर्थकत्वादेव तद्न्रहणाऽसिद्धेः। अतो ज्ञायते `अर्थवद्न्रहणपरिभाषा अनित्ये'ति। मघवा बहुलम्। `अर्वणस्त्रसा'वित्यतस्तृ इत्यनुवर्तते, तदपक्षा च `मघवे'तिषष्ठ\उfffद्र्थे प्रथमा, तदाह–

Satishji's सूत्र-सूचिः

200) मघवा बहुलम् 6-4-128

वृत्ति: मघवन् शब्दस्य वा तृँ इत्यन्तादेशः स्यात्। “मघवन्” gets “तृँ” as a replacement optionally.

उदाहरणम् – मघवन् + सुँ = मघवतृँ + स् 6-4-128, 1-1-52, 1-3-2, 1-3-9 = मघवत् + स् 1-3-2, 1-3-9 – Example continued below.