TBD.
रु इत्यस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति। पयःसु। सर्पिःषु। यशःसु। सुपि इति सप्तमीबहुवचनं गृह्यते। सिद्धे सत्यारम्भो नियमार्थः, रोरेव सुपि विसर्जनीयादेशः, न अन्यस्य। गीर्षु धूर्षु।
TBD.
270 रोरेव विसर्गः सुपि. षत्वम्. षस्य द्वित्वे प्राप्ते..
रोः सुपि। `खरीत्यनुवृत्तेः सप्तमीबहुवचनमेवात्र सुप्। `खरवसानयो'रित्येव सिद्धे नियमार्थ एवैष विधिरित्याह–रोरेवेति। विपरीतनियमस्तु न, `हलोऽनन्तराः संयोगः' इति निर्देशात्। षत्वमिति। `आदेश प्रत्यययो'रित्यनेने'ति शेषः। रेफस्य इण्त्वेन ततः परत्वादिति भावः। षस्य द्वित्व इति। `अचो रहाभ्या'मित्यनेने'ति शेषः।
299 रोः सुपि। `सुपि'ति न प्रत्याहारः, `खरी'त्यनुवृत्तेः। तेन `पराभ्या'मित्यादौ विध्यर्थमेतन्न भवति। `खरवसानयो'रित्येव सिद्धेऽयमारम्भो नियमार्थ इत्याह– रोरेवेति। `रोः सुप्येव विसर्जनीयः'इति विपरीतनियमस्त्विह न भवति, `हलोऽनन्तराः संयोगः'इत्यादिनिर्देशात्।
181) रोः सुपि 8-3-16
वृत्ति: रोरेव विसर्गः सुपि। When सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) follows, only “रुँ” gets विसर्गः as a replacement, not any other रेफ:।
उदाहरणम् – चतुर् + सुप् 4-1-2 = चतुर् + सु 1-3-3, the विसर्गादेशः that would have come from 8-3-15 is stopped by 8-3-16, since the रेफः of चतुर् is not “रुँ”। Hence we get चतुर्षु 8-3-59. Here the षकारः would be optionally duplicated by 8-4-46. Example continued below.