TBD.
भोर् भगोरघोरित्येवं पूर्वस्य अवर्णपूर्वस्य च रोः रेफस्य यकारादेशो भवति अशि परतः। भो अत्र। भगो अत्र। अघो अत्र। अभो ददाति। भगो ददाति। अघो ददाति। अपूर्वस्य क आस्ते, कयास्ते। ब्राह्मणा ददति। पुरुषा ददति। भोभगोअघोअपूर्वस्य इति किम्? अग्निरत्र। वायुरत्र। अश्ग्रहणं किम्? वृक्षः। प्लक्षः। न एतदस्ति, संहितायाम् इत्यनुवर्तते। तर्हि अश्ग्रहणम् उत्तरार्थम्। हलि सर्वेषाम् 8-3-22 इत्ययं लोपः अशि हलि यथा स्यात्, इह मा भूत्, वृक्षं वृश्चति इति वृक्षवृट्, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेरप्रत्ययः वृक्षव् करोति। अथ तत्र एव अश्ग्रहणं कस्मान् न कृतम्? उत्तरार्थम्, मो ऽनुस्वारः 8-3-23 इति हल्मात्रे यथा स्यात्। व्योर् लघु प्रत्यत्नतरः शाकटायनस्य 8-3-18), लोपः शाकल्यस्य (*8,3.19 इत्येतच् च वृक्षव् करोति इत्यत्र मा भूतित्यश्ग्रहणम्। रोः इत्येव, प्रातरत्र। पुनरत्र।
TBD.
108 एतत्पूर्वस्य रोर्यादेशोऽशि. देवा इह, देवायिह. भोस् भगोस् अघोस् इति सान्ता निपाताः. तेषां रोर्यत्वे कृते..
166 भोभगो। `रोस्सुपी'त्यतो `रो'रि त्यनुवर्तते। भो भगो अघो अ इत्येषां द्वन्द्वः। एतो पूर्वे यस्मादिति बहुव्रीहिः। पूर्वशब्दश्च प्रत्येकं संबध्यते–भोपूर्वकस्य भगोपूर्वकस्य अघोपूर्वकस्य अकारपूर्वकस्य च रोरिति। तदाह–एतत्पूर्वकस्येति। अत्र सूत्रे भगो अघो इत्यत्र, अघो अपूर्वस्येत्यत्र च एङः पदान्तादतीति पूर्वरूपमाशङ्क्याह–असन्धिरिति। सन्ध्यभावः सूत्रप्रयुक्त इत्यर्थः। `कृतलब्धे'त्यण्। देवाय् इह इति स्थिते सस्य रुः। तस्य अश्परकत्वाभावाद्यत्वं न। किन्तु विसर्गः। `विसर्जनीयस्य सः'। नन्विह अश्ग्रहणं व्यर्थम्। नच देवार्– सन्तीति स्थिते रेफस्य यत्वव्यावृत्त्यर्थं तदिति वाच्यं यत्वस्याऽसिद्धतया विसर्गे सति सत्वे देवास्सन्तीति सिद्धेरिति शङ्कते–यद्यपीति। परिहरति-तथापीति। अस्तु यत्वस्यासिद्धत्वाद्रेफस्य विसर्गः, तथापि तस्य स्थानिवद्भावेन रुत्वाद्यत्वं दुर्वारम्। अतोऽश्ग्रहणमावश्यकमिति भावः। विसर्गस्य स्थानिवद्भावेन कथं रुत्वम्। अनल्विधाविति निषेधात्। विसर्गस्थानिभूतं रेफमाश्रित्य प्रवर्तमानस्य यत्वविधेः स्थान्यलाश्रयत्वादित्यत आह–न ह्रमल्विधिरिति। कुत इत्यत आह–रोरिति समुदायरूपाश्रयणादिति। यद्यपि यत्वविधिर्विसर्गस्थानिभूतं रेफमाश्रयति, तथापि नाऽल्विधिः। ह्यस्वत्वादिरूपवर्णमात्रवृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात्। प्रकृते च यत्वविधी रुत्वेनैव रेफमाश्रयति नतु रेफत्वेन, तथा सति प्रातरत्रेत्यादावतिव्याप्तेः। रुत्वं च रेफोकारसमुदायधर्मो न तु रेफमात्रवृत्ति। अतो यत्वविधिर्विसर्गस्थानिभूतं न रेफं वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्रयतीति नाल्विधिः। अतो यत्वे कर्तव्ये विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात्। अतोऽशीति परनिमित्तमाश्रितमिति भावः। निपाता इति। चादेराकृतिगणत्वादिति भावः।
`लोपश्शाकल्यस्ये'ति न भवति, यकारस्य अपूर्वकत्वाऽभावात्।
136 भोभगो। असन्धिः सौत्र इति। सूत्रे कृतः सौत्रः। `कृतलब्धे'त्यण्। भगोअघोशब्दयोरोकारस्याऽकारस्य च पूर्वरूपं सौत्रत्वान्नेत्यर्थः। यदि तु भोस्भगोसघोसिति सान्तं रान्तं वाऽनुकृत्य-`भो' इत्यादीनां त्रयाणाम् `अलोऽन्त्यस्ये'त्यन्त्यस्य यः स्यात्, अपूर्वस्य रो`श्चे'ति व्याख्यायेत, तर्हि असन्धिन्र्याय्य #एवेति बोध्यम्। ननु रोरुकारस्यानुबन्धत्वाद्रेफमात्रं विसर्गस्यस्थानि, तथा च `अनल्विधौ' इति स्थानिवद्भावो न स्यादित्याशङ्क्याह- नह्रयमिति। अथा `अग्र`ही'दित्यत्र `ग्रहोऽलिटी'ति दीर्घस्य स्थानिवद्भावेन इट्त्वादिट् ईटीति प्रवर्तते एवमिहापि विसर्गस्य रुत्वाद्यत्वं प्रवर्तेतेति भावः। यद्यपि `रोरी'त्यतो `र' इत्यनुवर्त्त्य `रोर्यो रोफस्तस्य यादेश' इति व्याख्याने अयमल्विधिरेव, तथापि उत्तरार्थं कर्तव्यमशिग्रहणं `र'इत्यस्यानुवृत्तिक्लेशवारणार्थमिहैव कृतम्। निपाता इति। `भोभगो-' इति सूत्रे निर्दिष्टाश्चादेराकृतिगणत्वात्तत्र बोध्याः। यदि तु `विभाषा भवद्भगवदघवतामोच्चावस्ये'ति वार्तिकेन `एषां रुः स्यादवस्योकारो वा संबुद्धौ' इत्यर्थकेन निष्पन्ना एव भोःशब्दादयो गृह्रेरन्, तदा पुँल्लिङ्गैकवचनमात्रे `भ#ओ हरे' इत्यादिसिद्धावपि `भो हरिहरौ', `भो विद्वद्वृन्द,' `भोगङ्गे' इत्यादि न सिद्ध्येत्। तस्मा`द्विभाषा भव'दिति वार्तिकं नावश्यमाश्रयणीयमिति भावः। मनोरमायां तु-`भाष्यस्वरसरीत्या तु `विभाषे'ति वार्तिकमारब्धव्यमेवे'त्युक्तम्। तथाहि `हे भवन्' इतिवत् `हे भो' इति प्रयोगस्यापीष्टत्वात्। तस्य च वार्तिकारम्भ एव सिद्धेः। `स्युः पाट्?प्याडङ्गहैहेभोः' इत्यमरोक्तानां तु संबोधनार्थानां निपातानां सह प्रयोगाऽयोगात्। किंच `अत्र भवान्हरिः' `तत्र भवान्', `ततो भवान्,' इतिवत्तत्र भो इत्याद्यपि वार्त्तिके सत्येव सिध्यति, `इतराभ्योऽपि दृश्यन्ते' इति सर्वविभक्त्यन्तात्रतसोर्भवदादियोग'एवेष्टत्वात्। किंच आमत्रितत्वे पदात्परस्याष्टमिकनिघातः, `आमत्रितं पूर्वमविद्यामानव'दित्यविद्यमानद्भावश्चेत्यादि सिध्यति नान्यथा। `भो हरिहरा'वित्यादिसिद्धये `भो' #इति निरातोऽप्यवश्याभ्युपगन्तव्यः। यदि तु भगोअघो इति निपातावपि प्रामाणिकौ, तर्हि स्तां नाम, वार्त्तिकं तूक्तप्रयोजनाय स्वीकर्तव्यमेवेति दिक्। स्यादेतत्-निपातानामब्युपगमे यत्वविधौ त एव गृह्रेरन् प्रतिपदोक्तत्वान्न तु संबुद्धयन्ताः, लाक्षणिकत्वादिति चेन्मैवम्। `स्वरितेनाधिकारः' इत्यत्राधिकः कारोऽधिकार इति व्याख्यानमाश्रित्य लक्ष्यानुरोधेन स्वरितत्वमाश्रित्योभयग्रहणात्। लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वाच्च। अनित्यत्वे लिङ्गं तु`भुवश्च महाव्याह्मतेः'इति सूत्रे महाव्याह्मतिग्रहणं, `यावत्पुरे'ति सूत्रे निपातग्रहणं च। न चैवं लाक्षणिकानामपि ग्रहणे `विभोरिदं',- सुप्रभा गौर्यस्य स सुप्रभगुः, तस्य-`सुप्रभगोरिदं, `रघो'रिदमित्यत्रापि यत्वापत्तिरिति वाच्यम्, परस्परसाहचर्येण निपातानां वार्तिकोक्तानां च ग्रहणेऽप्यन्योषामग्रहणात्। साहचर्यं त्वेषां संबोधनार्थे इति बोध्यम्। `भो' इत्यादीनां त्रयाणामलोऽन्त्यस्य यः स्यादिति व्याख्याने त्वर्थवद्ग्रहणपरिभाषया नातिप्रसङ्गः। न च `अजहत्साव्र्था वृत्ति'रिति पक्षे विभोरिदं'`प्रभोरिद'मित्यत्र `भो'रित्येकदेशस्य अर्थोऽस्तीति शङ्क्यम्, `जहत्स्वार्था वृत्ति'रिति मुख्यपक्षे तदभावादिति दिक्।
10) भोभगोअघोअपूर्वस्य योऽशि 8-3-17
वृत्ति: भो-भगो-अघोपूर्वस्य अवर्णपूर्वस्य च रोः यकारादेशो भवत्यशि परतः । (For the time being we will ignore the terms भोः, भगोः and अघोः because their application is limited compared to the remaining part of the rule.) When the letter “रुँ” is preceded by the अवर्णः (अकारः or आकारः) and is followed by a letter of the अश्-प्रत्याहारः, then it is replaced by the यकारः।
गीतासु उदाहरणम् – श्लोकः bg1-1
धृतराष्ट्रस् + उवाच = धृतराष्ट्ररु + उवाच = धृतराष्ट्रय् + उवाच = धृतराष्ट्र + उवाच 8-3-19