Table of Contents

<<8-2-62 —- 8-2-64>>

8-2-63 नशेर् वा

प्रथमावृत्तिः

TBD.

काशिका

पदस्य इति वर्तते। नशेः पदस्य वा कवर्गादेशो भवति। सा वै जीवनगाहुतिः। स वे जीवनडा हुतिः। नशेरयं सम्पदादित्वाद् भावे क्विप्। जीवस्य नाशो जीवनक्, जीवनट्। षत्वे प्राप्ते कुत्वविकल्पः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

351 नशेः कवर्गोऽन्तादेशो वा पदान्ते. नक्, नग्; नट्, नड्. नशौ. नशः. नग्भ्याम्, नड्भ्याम्.. ,

बालमनोरमा

नशेर्वा। `क्विन्प्रत्ययस्य कुः' इत्यतः कुरित्यनुवर्तते, `स्कोः संयोगाद्योः' इत्यतोऽन्ते इति च। `पदस्ये'त्यदिकृतं। तदाह–नशेरित्यादि। `अन्तादेश' इत्यलोऽन्त्यसूत्रलभ्यम्। पक्षे `व्रश्चे'चि षत्वम्। नक् नगिति। कुत्वपक्षे जश्त्वचत्र्वाभ्यां रूपे। नट् नडिति। षत्वपक्षे जश्त्वचत्र्वाभ्यां रूपे। नग्भ्यां नढ्भ्यामिति। कुत्वपक्षे जश्त्वेन गकारः। षत्वपक्षे तु जश्त्वेन डकारः। `मस्जिनशोर्झली'ति नुम् तु न, धातोर्विहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात्।

तत्त्वबोधिनी

383 नगिति। षडगकाः प्रग्वात्।

Satishji's सूत्र-सूचिः

TBD.