Table of Contents

<<3-2-57 —- 3-2-59>>

3-2-58 स्पृशो ऽनुदके क्विन्

प्रथमावृत्तिः

TBD.

काशिका

स्पृशे र्धातोरनुदके सुबन्त उपपदे क्विन् प्रत्ययो भवति। ननु सकर्मकत्वात् स्पृशेः कर्मैवोपपदं प्राप्नोति? न एष दोषः। कर्तरि इति पूर्वसूत्रादनुवर्तते, तत् कर्तृप्रचयार्थं विज्ञायते। सुबन्तमात्रे च उपपदे कर्तृपचयो लभ्यते घृतं स्पृशति घृतस्पृक्। मन्त्रेण स्पृशति मन्त्रस्पृक्। जलेन स्पृशति जलस्पृक्। अनुदके इति किम्? उदकस्पर्शः। नकारः क्विन्प्रत्ययस्य कुः 8-2-62 इति विशेषणार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

352 अनुदके सुप्युपपदे स्पृशेः क्विन्. घृतस्पृक्, घृतस्पृग्. घृतस्पृशौ. घृतस्पृशः.. दधृक्, दधृग्. दधृषौ. दधृग्भ्याम्.. रत्नमुषौ. रत्नमुड्भ्याम्.. षट्, षड्. षड्भिः. षङ्भ्यः. षण्णाम्. षट्सु.. रुत्वं प्रति षत्वस्यासिद्धत्वससजुषो रुरिति रुत्वर्म्.. ,

बालमनोरमा

स्पृशोऽनुदके। अनुदके सुपीति। उदकशब्दबिन्ने सुबन्ते इत्यर्थः। `सुपि स्थः' इत्यतः `सपी'त्यनुवर्तते इति भावः। घृतस्पृगिति। घृतं स्पृशतीति विग्रहे क्विन्। उपपदसमासः। सुब्लुक्। घृतस्पृशशब्दात्सुबुत्पत्तिः। सोर्हल्ङ्यादिलोपः। `क्विन्प्रत्ययस्ये'ति कुत्वस्याऽसिद्धत्वात् पूर्वं `व्रश्चे'ति षः।तस्य जश्त्वेन डः। तस्य कुत्वेन गः। तस्य चत्र्वाविकल्प इति भावः। घृतस्पृग्भ्याम्। घृतस्पृक्षु। अथ `क्विन्प्रत्ययस्य कुः' इत्यत्र `क्विनः कुः' इत्यतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहणं क्विन् प्रत्ययो यस्मादिति बहुव्रीहिलाभायेत्युक्तं युक्शब्दनिरूपणावसरे, तस्य प्रयोजनमाह–क्विप्यपिकुत्वमिति। `सति भवती'ति शेषः। अनुदके सुप्युपपदे तावत् स्पृशेः क्विन् विहितः। अतो निरुपसर्गात् स्पृशेः क्विबेव। तस्य संप्रति क्विन्नन्तत्वाऽभावेऽपि कुत्वं भवत्येव, बहुव्रीह्राश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्वयोग्यतालाभादिति भावः। षडगकाः प्राग्वदिति। षत्वजश्त्वकुत्वचत्र्वैरिति भावः। इति शान्ताः। अथ षान्ताः। दधृष्शब्दस्य व्युत्पतिं?त दर्शयति–ञि धृषेति। `आदिर्ञिटुडवः' इति ञिरित्। आकारस्तु `उपदेशेऽजनुनासिक' इति इत्। ऋत्विगादिनेति। क्विन्नादित्रयं निपात्यते। क्पिनि लुप्ते धृष् इत्यस्य द्वित्वं। `उरत्' रपरत्वम्। `हलादिः शेषः'। कित्त्वान्न लघूपधगुणः, दधृष् इति रूपम्। ञ्नित्यादिर्नित्य'मित्याद्युदात्तनिवृत्त्यर्थमन्तोदात्तनिपातनम्। कुत्वात्पूर्वमिति। जश्त्वं प्रति कुत्वस्याऽसिद्धत्वात्प्रथमं जस्त्वेन षस्य डकार इत्यर्थः। गः क इति। `क्विन्प्रत्ययस्ये'ति डस्य कुत्वेन गकारः, तस्य चर्त्वेन ककार इत्यर्थः। रत्नमुडिति। `मुष स्तेये'क्विप्, उपपदसमासः सुब्लुक्, हल्ङ्यादिलोपः, जश्त्वचर्त्वे इति भावः। षष्शब्दो नित्यं बहुवचनान्तः। तस्य बहुवचनेष्वेव रूपाणि दर्शयति–षड्भ्यो लुगिति। `अनेन जश्शसोर्लुकि जश्त्वचर्त्वे' इति शेषः। तदन्तविधिरिति। `षड्भ्यो लुक्, षट्चतुभ्र्यश्चे'त्यनयोराङ्गत्वादिति भावः। प्रियषट-प्रियषड्, प्रियषषौ, प्रियषष इत्यादि रत्नमुषशब्दवत्। तत्र `षड्भ्यो लुक्' इति `षट्चतुभ्र्यश्चे'ति च लुङ्नुटोः प्रवृत्तेरिति भावः। पठितुमिच्छतीत्यर्थे `पठ व्यक्तायां वाचि'-इति धातोः `धातोः कर्मणः' इति सन्प्रत्यये `सन्यङीः' इति द्वित्वे हलादिशेषे `सन्यतः' इत्यब्यासस्य इत्त्वं, सन इट्, षत्वं, `सनाद्यन्ताः' इति धातुत्वम्। `पिपठिष' इत्यस्मात् क्विप्, `अतो लोपः', पिपठिष् इति षकारान्तम्। कृदन्तत्वात्प्रातिपदिकत्वं, ततः सुः। तत्र विशेषं दर्शयति-रुत्वं प्रतीति। `क्वौ लुप्तं न स्थानिवत्' इति निषेधाद्धल्ङ्यादिलोपे कृते `ससजुषो रुः' इति रुत्वम्। न च सकाराऽभावः शङ्क्यः, रुत्वं प्रति षत्वस्याऽसिद्धत्वादित्यर्थः।

तत्त्वबोधिनी

384 स्पृशोऽनुदके क्विन्। ककारो गुणाऽभावार्थः। नकारस्तु `क्विन्प्रत्ययस्य कुः'इति विशेषणार्थः। वस्तुप्रयोजनं, क्विनः प्रकृतीनामेकाच्त्वाद्धातुस्वरेणाऽपि तत्सिद्धेः। `दधृ'गित्यत्र त्वन्तोदात्तत्वनिपातनादद्यदात्तत्वं नापेक्षितमेवेति दिक्। अत्र `सुपी'त्यनुवर्तते, `कर्मणी'ति तु निवृत्तमित्याशयेनाह—अनुदके सुप्युपपदे इति। घृतस्पृगिति। घृतं घृतेन वा स्पृशतीति विग्रहः। अनुदके किम्?, उदकं स्पृशतीति उदकस्पर्शः। निषेधसामथ्र्यादिह क्विबपि न भवति, तस्मिन्ह सति क्विन्प्रत्ययो यस्मादिति बहुव्रीह्राश्रयणेन कुत्वस्याऽवर्जनीयतया `अनुदके'इति निषेधस्य फलाऽभावात्। केचित्तु `उदाकस्पृ'डिति प्रत्युदाहरन्ति, निषेधसामथ्र्यात्कुत्बं माऽस्तु, क्विप्स्यादेवेति तेषामाशयः। इति शान्ताः। गौणत्वे त्विति।

Satishji's सूत्र-सूचिः

TBD.