TBD.
इदमः अककारस्य इद्रूपस्य स्थाने अन इत्ययम् आदेशो भवति आपि विभक्तौ परतः। अनेन। अनयोः। अकः इति किम्? इमकेन। इमकयोः। आपि इति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण।
TBD.
278 अककारस्येदम इदोऽनापि विभक्तौ. आबिति प्रत्याहारः. अनेन..
टादावचि विशेषमाह-अनाप्यकः। अन्,-आपि,-अक इति च्छेदः। न विद्यते क् यस्य सः अक्, तस्य-अकः। ककाररहितस्येत्यर्थः। `इदमो मः' इत्यत `इदम' इति, इदोऽय्पुंसी'त्यत `इद' इति चानुवर्तते। `अष्टन आ विभक्तौ इत्यतो विभक्ताविति। तदाह–अककारस्येत्यादिना। आपीत्यनेन टाप्डाप्चापां ग्रहणं नेत्याह-आबित्यादिना। `टा' इत्याकारमारभ्येत्यर्थः। विभक्तावित्यनुवृत्तिसामथ्र्यान्न टाबादिग्रहणमिति भावः। अनेनेति। इदम् आ इति स्थिते त्यदाद्यत्वं पररूपत्वम्। इदोऽनादेशः। अन-आ इति स्थिते इनादेशे गुण इति भावः।
306 अनाप्यकः। `आ'विति प्रत्याहारो न तु टाप्, विभक्ताविति विशेषणादतो व्याचष्टे– टा इत्यारभ्य सुपः पकारेणोति।
187) अनाप्यकः 7-2-112
वृत्ति: अककारस्येदम इदोऽन् आपि विभक्तौ। आबिति प्रत्याहारः। The “इद्” part of “इदम्” that is without the ककारः gets “अन्” as its replacement, when the विभक्तिः affixes of the “आप्”-प्रत्याहारः follow. “आप्” is the प्रत्याहारः made of the “सुँप्” affixes from “टा” until “सुप्”।
गीतासु उदाहरणम् – श्लोकः bg3-10
इदम् + टा = इद अ + इन 7-2-102, 7-1-12 = इद + इन 6-1-97 = अन + इन 7-2-112 = अनेन 6-1-87