Table of Contents

<<7-2-112 —- 7-2-114>>

7-2-113 हलि लोपः

प्रथमावृत्तिः

TBD.

काशिका

हलादौ विभक्तौ परतः इदमो ऽककारस्य इद्रूपस्य लोपो भवति। आभ्याम्। एभिः। एभ्यः। एषाम्। एषु। नानर्थके ऽलोन्त्यविधिः इति सर्वस्य अयम् इद्रूपस्य लोपः। अथ वा न अयम् इल्लोपः। अनाप्यकः 7-2-112 इति अङ्ग्रहणम् अनुवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

279 अककारस्येदम इदो लोप आपि हलादौ. नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे..

बालमनोरमा

भ्यामादौ त्यदाद्यत्वे पररूपे च कृते `अनाप्यकः' इति प्राप्ते-हलि लोपः। `आप्यक' इति पूर्व सूत्रादनुवर्तते। `इदमो मः' इत्यत `इदम' इति `इदोऽय् पुंसी'त्यत `इद' इति `अष्टनः' इत्यतो विभक्ताविति चानुवर्तते। हलीति विभक्तिविशेषणं। तदादिविधिः। तदाह-अककारस्येत्यादिना। अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्क्याह–नानर्थक इति। परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता। इदम्शब्दे इदित्यस्यानर्थकत्वात्तदन्तस्येति न लभ्यते। ततश्च इदित्यस्य कृत्स्नस्यैव लोप इति भावः। अनभ्यासविकार इत्यनुक्तौ विभर्तीत्यादौ `मृञामित्', अर्तिपिपत्र्योश्चे'तीत्त्वं कृत्स्नस्याभ्यासस्य स्यात्। द्वित्वे सति समुदायस्यैवार्थवत्त्वात्। `हलि लोप' इत्यत्र लोपग्रहणपनीय `हल्य' शित्येव सूत्रयितुमुचितम्, शित्त्वादिदः कृत्स्नस्याकारे पररूपे `सुपि चे'ति दीर्ङे आभ्यामित्यादिसिद्धेः।

तत्त्वबोधिनी

307 नानर्थकेऽलोन्त्यविधिरिति। नन्वेवं `बिभर्ति'`पिपर्ती'त्यादौ `भृञामित्'`अर्तिपिपत्र्योश्चे'तीत्त्वं सर्वस्याऽभ्यासस्य स्यात्, द्वित्वाऽभावे केवलस्याऽर्थवत्त्वेऽपि द्वित्वे सति समुदायस्यैवाऽर्थवत्त्वादित्याशङ्कायामाह– अनभ्यासविकार इति।

Satishji's सूत्र-सूचिः

188) हलि लोपः 7-2-113

वृत्ति: अककारस्येदम इदो लोपः स्यादापि हलादौ। The “इद्” of “इदम्” that is without the ककारः takes लोपः, when the विभक्तिः affixes of the “आप्”-प्रत्याहारः, which begin with a consonant, follow. This rule is an अपवाद: (exception) to the prior rule 7-2-112.
Only the दकारः of “इद्” would take लोपः by 1-1-52. But the following परिभाषा takes effect:
नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
In this example, the entire term “इदम्” has meaning but the “इद्” part doesn’t. So 1-1-52 does not apply when it comes to operating on the “इद्” part. Therefore, the “इद्” part completely takes लोपः by 7-2-113.

Example under the next rule.