Table of Contents

<<6-1-106 —- 6-1-108>>

6-1-107 अमि पूर्वः

प्रथमावृत्तिः

TBD.

काशिका

अकः इत्येव। अमि परतोऽकः पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति। वृक्षम्। प्लक्षम्। अग्निम्। वायुम्। पूर्वग्रहणम् किम्? पूर्व एव यथा स्यात्, पूर्वसवर्णोऽन्तरतमो मा भूतिति, कुमारीम् इत्यत्र हि त्रिमात्रः स्यात्। वा छन्दसि 6-1-106 इत्येव, शमीं च (काठ. ३६.६), शम्यं च। गौरीं च, गौर्यं (ॠ. ४.१२.६) च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

135 अकोऽम्यचि पूर्वरूपमेकादेशः. रामम्. रामौ..

बालमनोरमा

193 `अकः सवर्ण' इति बाधित्वा `अतो गुण' इति पररूपं प्राप्तम्- तद्बाधित्वा`प्रथमयो'रिति पूर्वसवर्णदीर्घे प्राप्ते – अमिपूर्वः। `अकः सवर्णे दीर्घ' इत्यतोऽक इति पञ्चम्यन्तमनुवर्तते। `एकः पूर्वपरयो'रित्यधिकृतम्। `इको यणची'त्यतोऽचीत्यनुवर्तते। तदाह–अकोऽम्यचीति। अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः। `राम'मिति मकारादकारस्य अमवयवाऽकारस्य च पूर्वरूपमकार एको भवति। अचीत्यनुवृत्तौ `अकोऽमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्या'दिति लभ्यते। तथा सति अमो मकारसहितस्य पूर्वरूपं स्यात्। तन्मा भूदित्यजनुवृत्तिः। रामाविति। राम औडिति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः औटष्टकारः सुडिति प्रत्याहारार्थः।

तत्त्वबोधिनी

161 अमिपूर्वः। `प्रथमयो'रिति पूर्वसवर्णदीर्घे प्राप्तेऽयमारम्भः। `इको यणची'त्यतोऽचीत्यनुवर्तते, तदाह–अम्यचीति। अमि योऽच् तस्मिन्। अमोऽवयवे अचीति यावत्। तेन मकारसहितस्य पूर्वरूपं नेति स्थितं मनोरमायाम्। एवम् `अक्षादूहिन्या'मित्यादावपि `ऊहिन्यां योऽच्तस्मि'न्नित्यादि बोध्यम्। `पदास्वैरिबाह्रे'त्यादिनिर्देशाश्चास्मिन्व्याख्याने लिङ्गमित्यपि स्थितम्। कथं तर्हि काशिकादावमि परत इत्येवोक्तं, न त्वम्यचीति चेदत्राहुः- `तस्मादित्युत्तरस्या,' `आदेः परस्ये'त्यादेरेवादेश इति निर्णीते `एकः पूर्वपरयो'रित्यादेशः पूर्वपरयोर्वर्णयोरेव भविष्यतीत्याशयेन नोक्तमिति।

Satishji's सूत्र-सूचिः

इदम् (अन्वादेशे) + अम् = एन + अम् 2-4-34 = एनम् 6-1-107