Table of Contents

<<5-3-11 —- 5-3-13>>

5-3-12 किमो ऽत्

प्रथमावृत्तिः

TBD.

काशिका

किमः सप्तम्यन्तादत् प्रत्ययो भवति। त्रलो ऽपवादः। क्व भोक्ष्यसे। क्वाध्येष्यसे। त्रलम् अपि केचिदिच्छन्ति कुत्र। तत्कथम्? उत्तरसूत्राद् वावचनं पुरस्तादपकृष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1209 वाग्रहणमपकृष्यते. सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल्..

बालमनोरमा

1934 किमोऽत्। अपकृष्यत इति। `वा ह च छन्दसी'त्युत्तरसूत्रादिति शेषः। अपकर्षे व्याख्यानमेव शरणम्। अत्प्रत्यये तकार इत्। `न विभक्ता'विति निषेधस्तु न भवति, `तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते' इति वार्तिकात्।

तत्त्वबोधिनी

1475 किमोऽत्। `न विभक्तौ तुस्माः'इतिनिषेधोऽत्र न प्रवर्तते, थमोरुकारेण मकारपरित्राणार्थेनाऽनित्यताज्ञापनात्। वाग्रहणमिति। `किमोऽद्वा'इति सूत्रं पठित्वा `ह च छन्दसी'ति सूत्रयितुं युक्तम्।

Satishji's सूत्र-सूचिः

TBD.