Table of Contents

<<7-2-103 —- 7-2-105>>

7-2-104 कु तिहोः

प्रथमावृत्तिः

TBD.

काशिका

तकारादौ हकारादौ च विभक्तौ परतः किम् इत्येतस्य कु इत्ययम् आदेशो भवति। कुतः। कुत्र। कुह। तिहोः इति इकारः उच्चारणार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1203 किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः. कुतः, कस्मात्..

बालमनोरमा

1929 कुतिहोः। `कु' इति लुप्तप्रथमाकम्। `किमः कः' इत्यस्मात् `किमः' इत्यनुवर्तते। `अष्टन आ' इत्यतो `विभक्ता'विति। तिश्च ह् च तयोरिति द्वन्द्वः। इकार उच्चारणार्थः। ताभ्यां विभक्तिर्विशेष्यते। तदादिविधिः। तदाह–किमः कुः स्यादित्यादिना। कुत इति। किंशब्दात् पञ्चम्यन्तात्तसिल्। सुब्लुक्। किमः कुभावः। `तसिलादयः प्राक्पाशपः' इत्युक्तेरव्ययत्वम्। वेत्यनुवृत्तेः फलमाह–कस्मादिति। `तिहो'रित्युक्तेरत्र न कुभावः। सर्वनाम्न उदाहरति–यत इति। यच्छब्दात्पञ्चम्यन्तात्सुब्लुक्, तसिलो विभक्तित्वात्तस्मिन्परे त्यदाद्यत्वं पररूपम्। एवं तच्छब्दात्तत इति रूपम्। पक्षे तस्मादिति भवति। अत इति। एतच्छब्दात्पञ्चन्तात्तसिल्। सुब्लुक्। एतदोऽन्। सर्वादेशः। नलोपः। पक्षे `एतस्मा'दिति भवति। इत इति। इदंशब्दात्पञ्चम्यन्तात्तसिल्। सुब्लुक्। `इदम इश्'। पक्षे अस्मादिति भवति। अमुत इति। अदस्शब्दात्पञ्चम्यन्तात्तसिल्, उत्वमत्वे च। पक्षे `अमुष्मा'दिति भवति। बहुत इति। पक्षे `बहुभ्य' इति भवति। द्व्यादेस्त्विति। सर्वनामत्वात्प्राप्तस्तसिल्-द्व्यादिपर्युदासान्नेत्यर्थः।

तत्त्वबोधिनी

1473 कु तिहोः। तकारादिकार उच्चारणार्थः। वेत्यनुवृत्तेः फलं दर्शयेति— कस्मादिति। यतस्तत इति। `कृत्तद्धिते'ति प्रातिपदिकत्वात्सुपो लुकि त्यादाद्यत्वम्। पक्षे–यस्मात्। तस्मात्। इति इति। `इदम इश्'। पक्षे अस्मात्। अत इति। एतदोऽनादेशः। पक्षे एतस्मात्। अमुत इति। `अदसोसे'रिति मुत्वम्। पक्षे। अमुष्मात्। बहुत इति। पक्षे—बहुभ्यः। द्वाभ्यामिति। सर्वनामत्वात्प्राप्तोऽपि तसिल् `अद्व्यादिभ्यः'इति पर्युदासान्न। तसेरिति। `प्रतियोगे पञ्चम्यास्तसिः;, `अपादाने चाहीयरुहो'रिति विहितस्य तसेस्तसिलादेश इत्यर्थः। विभक्त्यर्थ चेति। अन्यथा परत्वात्तसौ कृते तस्याऽप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्त्यदाद्यत्वांऽबावे `यतोऽवगच्छती'त्यादि न सिध्येदिति भावः। ननु तसेग्र्रामत इत्यादौ चरितार्थत्वात्किमादिभ्यस्तसिलो बाध्यत्वेन तसिर्नप्रवर्तते, तस्य निरलकाशत्वात्। तथा च `तसेश्चे'ति विधानं व्यर्थमिति वाच्यं, `कुतोऽवहीयते' `कुतोऽवरोहती'त्यादौ तसिलः सावकाशत्वात्।

हेतुः। तेनेह नभवति—परिषिञ्चति। अभिषिञ्चति। उपर्यर्थे परिः। अभिस्त्वाभिमुख्ये। नन्वोदनं परिषिञ्चतीत्यत्र सर्वतोभावो परिरिति तसिलभावः कथमिति चेन्मैवम्। वावचनाऽनुवृत्त्या तु तत्सिद्धेः।

Satishji's सूत्र-सूचिः

TBD.