Table of Contents

<<7-2-99 —- 7-2-101>>

7-2-100 अचि र ऋतः

प्रथमावृत्तिः

TBD.

काशिका

तिसृ चतसृ इत्येतयोः ऋतः स्थाने रेफादेशो भवति अजादौ विभक्तौ परतः। तिस्रः तिष्ठन्ति। तिस्रः पश्य। चतस्रः तिष्ठन्ति। चतस्रः पश्य। प्रियतिस्रः आनय। प्रियातस्रः आनय। प्रियतिस्रः स्वम्। प्रियचतस्रः स्वम्। प्रियतिस्रि निधेहि। प्रियचतस्रि निर्धेहि। पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानाम् अपवादः। परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते। अचि इति किम्? तिसृभिः। चतसृभिः। ऋतः इति किम्? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादः त्रिचतुरोरेव अयम् आदेशो विज्ञायेत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

226 तिसृ चतसृ एतयोरृकारस्य रेफादेशः स्यादचि. गुणदीर्घोत्वानामपवादः. तिस्रः. तिसृभ्यः. तिसृभ्यः. आमि नुट्..

बालमनोरमा

297 अचि र ऋतः। पूर्वसूत्रात्तिसृचतसृ इत्यनुवर्तते। तच्चेह लुप्तषष्ठीकमाश्रीयते। तदाह-तिसृ इत्यादिना। ननु `इको यणची'त्येव सिद्धमित्यत आह-गुणदीर्घोत्त्वानामपवाद इति। `ऋतो ङी'ति गुणस्य, `प्रथमयो'रिति पूर्वसवर्णदीर्घस्य, `ऋत उ'दित्त्युत्त्वस्य च रत्वमपवाद इत्यर्थः। तिरुआ इति। जश्शसोः रूपम्। तत्र जसि `ऋतो ङी'ति गुणस्य रत्वमपवादः। शसि तु `प्रथमयोः' इति पूर्वसवर्णदीर्घस्य रत्वमपवादः। आमीति। तिसृ-आम् इति स्थिते नुटं बाधित्वा `अचि र ऋतः' इति रत्वे तिरुआआमिति प्राप्ते `नुमचिरतृज्वद्भावगुणेभ्यो नुट् पूर्वविप्रतिषेधेने'ति रत्वं बाधित्वा नुडित्यर्थः।

तत्त्वबोधिनी

259 गुणदीर्घोत्वानामिति। तिस्त्रस्तिष्ठन्ती त्यत्र `ऋतो ङी'ति गुणस्य रत्वमंपवादः। `तिरुआः पश्ये'त्यत्र तु `प्रथमयो'रिति पूर्वसवर्णदीर्घस्यापवादः। `प्रियतिरुआ आगतः'`प्रियतिरुआः स्व'मित्यत्र `ऋत उ'दित्युत्त्वस्येति विवेकः। यद्यपि मध्ये.?पवादन्यायेन दीर्घोत्त्वयोरेव रत्वमपवादः स्यान्न तु `ऋतो ङी'ति गुणस्य, तथापि बाध्यसमान्यचिन्तामाश्रित्य स्वविषये प्राप्तं सर्वमेव हि बाध्यत इति भावः।

Satishji's सूत्र-सूचिः

वृत्ति: तिसृ-चतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । The ऋकारः of “तिसृ” and “चतसृ” gets रेफ: as the replacement, when followed by a vowel.

उदाहरणम् – त्रि + जस् = त्रि + अस् 1-3-7 = तिसृ + अस् 7-2-99 = तिस्रः 7-2-100, 8-2-66, 8-3-15

त्रि + शस् = त्रि + अस् 1-3-8 = तिसृ + अस् 7-2-99 = तिस्रः 7-2-100, 8-2-66, 8-3-15


130) (वार्त्तिकम्) नुँम्-अचिर-तृज्वद्भावेभ्यो नुँट् पूर्वविप्रतिषेधेन

When there is a विप्रतिषेधः (conflict) between the नुँट् augment and one of the following – नुँम् augment, रेफ: (the letter “र्”) replacement for ऋकारः when a vowel follows, or the तृज्वद्भावः, the नुँट् augment takes precedence.

उदाहरणम् –त्रि + आम् = तिसृ + आम् 7-2-99 = तिसृ + नाम् The रेफादेशः for ऋकारः is stopped by this वार्त्तिकम् and precedence is given to नुँट्, which comes in by 7-1-54. Example continued under next rule.