Table of Contents

<<7-1-10 —- 7-1-12>>

7-1-11 न इदमदसोरकोः

प्रथमावृत्तिः

TBD.

काशिका

इदम् अदसित्येतयोः अककारयोः भिस ऐस् न भवति। एभिः। अमीभिः। अकोः इति किम्? इमकैः। अमुकैः। अकोः इत्येतदेव प्रतिषेधवचनं ज्ञापकम् तन्मध्यपतितस्तद्ग्रहनेन गृह्यते इति। इदमदसोः कातिति नोक्तम्, विपरीतो ऽपि नियमः सम्भाव्येत इदमदसोरेव कातिति। ततश्च इह न स्यात्, सर्वकैः, विश्वकैः। इह च स्यादेव, एभिः, अमीभिः। प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

281 अककारयोरिदमदसोर्भिस ऐस् न. एभिः. अस्मै. एभ्यः. अस्मात्. अस्य. अनयोः. एषाम्. अस्मिन्. अनयोः. एषु..

बालमनोरमा

तत्त्वबोधिनी

309 नेदमदसोः। भाष्ये तु `इदमदसोः कात्'। नियमार्थमिदम्। `इदमदसोः कादेव भिस ऐस् नान्यतः'इति स्थितम्। नव्यास्तु–`इदमदसो का'दिति सूत्रिते तु `काद्भिस ऐस् इदमसोरेवे'ति विपरितनियमोऽपि संभाव्येत। तथाच `पाचकै'रित्यादि न सिध्येत्। किं तु `इदमदसोः काद्भिस ऐस्'`अतः'इत्येव सूत्रद्वयं सुवचमित्याहुः। स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्कायामाह–नित्यत्वान्हेः स्मै इति।

Satishji's सूत्र-सूचिः

190) नेदमदसोरकोः 7-1-11

वृत्ति: अककारयोरिदमदसोर्भिस ऐस् न। भिस् does not get ऐस् as a replacement, when it follows इदम् or अदस् , that is without a ककारः। This is a negation of 7-1-9.

Example continued:

अ + भिस् = एभिः 7-3-103, 1-1-21, 8-2-66, 8-3-15