Table of Contents

<<6-4-20 —- 6-4-22>>

6-4-21 राल् लोपः

प्रथमावृत्तिः

TBD.

काशिका

रेफादुत्तरयोः छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः। मुर्च्छा मूः, मुरौ, मुरः। मूर्तः। मूर्तवान्। मूर्तिः। न ध्याख्यापृ\उ0304मूर्छिमदाम् 8-2-57 इति निष्ठानत्वाभावः। हुर्च्छा हूः, हुरौ, हुरः। हूर्णः। हूर्णवान्। हूर्तिः। राल्लोपे सुतुक्कस्य छस्य अभावात् केवलो गृह्यते। वकारस्य तुर्वी तूः, तुरौ, तुरः। तूर्णः। तूर्णवान्। तूर्तिः। धुर्वी धूः, धुरौ, धुरः। धूर्णः। धूर्णवान्। धूर्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

845 रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति. धूः. विद्युत्. ऊर्क. पूः. दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः. जूः. ग्रावस्तुत्. (क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च). वक्तीति वाक्..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.