Table of Contents

<<6-1-112 —- 6-1-114>>

6-1-113 अतो रोरप्लुतादप्लुते

प्रथमावृत्तिः

TBD.

काशिका

अति, उतिति वर्तते। अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारे ऽप्लुते परत उकारादेशो भवति। वृक्षो ऽत्र। प्लक्षो ऽत्र। भोभगोअघोअपूर्वस्य यो ऽशि 8-3-17 इत्यस्मिन् प्राप्ते उत्वं विधीयते। रुत्वम् अपि आश्रयात् पूर्वत्र असिद्धम् 8-2-1 इति असिद्धं न भवति। अतः इति किम्? अग्निरत्र। तपरकरणं किम्? वृक्षा अत्र। सानुबन्धग्रहणं किम्? स्वरत्र। प्रातरत्र। अति इत्येव, वृक्ष इह। तस्य अपि तपरत्वादत्र न भवति। वृक्ष आश्रितः। अलुतातिति किम्? सुस्रोता3अत्र न्वसि। अप्लुते इति किम्? तिष्ठतु पय अ3च्श्विन्। अत्र प्लुतस्य असिद्धत्वातुत्वं प्राप्नोति इति अप्लुतादप्लुते इति उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

106 अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति. शिवोर्ऽच्यः..

बालमनोरमा

162 शिवर् अच्र्य इति स्थिते–अतो रोः। `ऋत उ'दित्यत उदित्यनुवर्तते। `अत' इति पञ्चमी। `एङः पदान्तादती'त्यतोऽतीत्यनुवर्तते। तदाह–अप्लुतादिति। नन्वत्र उत्वं बाधित्वा `भोभगोअघोअपूर्वस्य योऽशि' इति यत्वं परत्वात्स्यात्। नच यत्वस्यासिद्धत्वादुत्वं निर्बाधमिति वाच्यं, कृते।ञपि उत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वादत आह–यत्वस्यापवाद इति। यद्यपि भोभगोअघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यंशे उत्वमपवादः प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भावः। ननूत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह–उत्वं प्रतीति।

तत्त्वबोधिनी

133 यत्वस्यासिद्धत्वादुत्वे कृतेऽपि तस्य स्थानिवत्त्वेन रुत्वाद्यत्वं स्यादित्याशङ्कायामाह-यत्वस्यापवाद इति। उत्वविधेः सामथ्र्यादिति। न च `अतो रोरप्लुता'दिति सूत्रं परित्यज्य `रोः सुपी'ति सूत्रानन्तरम् `अत उरती'त्येव लाघवादुच्यतां किमनेन सामथ्र्याश्रयणप्रयासेनेति वाच्यम्; तथाहि सति उत्बस्यासिद्धतया `शिवोऽच्र्य' इत्यादावाद्गुणस्याऽप्रवृत्तिप्रसङ्गात्।

Satishji's सूत्र-सूचिः

8 ) अतो रोरप्लुतादप्लुते 6-1-113

वृत्ति: अप्लुतादत: परस्य रोरु: स्यादप्लुतेऽति । (We will ignore the terms अप्लुतादप्लुते because they seldom have application in classical Sanskrit.) When the letter “रुँ” is sandwiched between two short “अ” letters, then it is substituted by the letter “उ”।

गीतासु उदाहरणम् – श्लोकः bg11-5

शतशस् + अथ = शतशरु + अथ = शतशउ + अथ = शतशॊ + अथ = शतशॊऽथ