Table of Contents

<<3-1-93 —- 3-1-95>>

3-1-94 वा ऽसरूपो ऽस्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

अस्मिन् धात्वधिकारे ऽस्मानरूपः प्रत्ययो ऽपवादो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा। ण्वुल्तृचौ 3-1-133 उत्सर्गौ, इगुपधज्ञाप्रीकिरः कः 3-1-135) इत्यपवादः, तद्विषये ण्वुल्तृचौ (*3,1.133 अपि भवतः। विक्षेपकः, विक्षेप्ता, विक्षिपः। असरूप इति किम्? कर्मण्यण् 3-2-1 इत्युत्सर्गः, आतो ऽनुपसर्गे कः 3-2-3 इत्यपवादः, सनित्यं बाधको भवति। गोदः। कम्बलदः। न अमुबन्धकृतम् असारूप्यम्। अस्त्रियाम् इति किम्? स्त्रियां कितन् 3-3-94) इत्युत्सर्गः, अ प्रत्ययात् (*3,3.102 इत्यपवदः, स बाधक एव भवति। चिकीर्षा जिहीर्षा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

770 अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना..

बालमनोरमा

651 वाऽसरूपोऽरिउआयाम्। `असरूप'इति छेदः। परिभाषेयमिति। अधिकारत्वे स्वरितत्वकल्पनागौरवादिति भावः। असरूप इति लिङ्गनिर्देशः। यत्र असरूपप्रत्ययो विधास्यते तत्र वेत्युपतिष्ठते। `वे'त्यतः प्राक् `बाधक' इति शेषः। असरूपो वा बाधको भवतीति यावत्। कस्य बाधको वेतयाकाङ्क्षायामुत्सर्गस्येत्यर्थाल्लभ्यते। फलितमाह– अस्मिन् धात्वधिकारे इत्यादिना। स्त्रीशब्दः स्वर्यते। तदाह- - स्त्र्यधिकारोक्तं विनेति। `स्त्रियां क्तिन् इति वक्ष्यमाणस्त्र्यधिकारस्थमपवादं विनेत्यर्थः। स्त्र्यधिकारस्थस्तु असरूपः प्रत्यय उत्सर्गस्य नित्यमेव बाधक इतिभावः। `ण्वुल्तृचौ' इत्युपसर्गः। `इगुपधज्ञाप्रीकिरः कः' इत्यपवादः। तद्विषये ण्वुल्तृचवावपि भवतः। विक्षिपः। विक्षेपकः। विक्षेप्ता। असरूप इति किम् ?। `कर्मण्यण्' इत्युत्सर्गः। `आतोऽनुपसर्गे कः' इत्यपवादः। स तु सरूपत्वान्नित्यं बाधक एव। गोदः। कम्बलदः। `नानुबन्धकृतमसारूप्य'मिति वचनादनुबन्धो न सारूप्यप्रतिबन्धकः। अस्त्रियां किम् ?। `स्त्रियां क्तिन्' इत्युत्सर्गः। `अ प्रत्यया'दिति प्रत्ययान्तद्विहितोऽकारप्रत्ययः, तस्याऽपवादो बाधक एव भवति। चिकीर्षा। व्यावक्रोशी व्याक्रुष्टिरित्यत्र तु `कर्म व्यतिहारे णच् स्त्रिया'मिति णच् क्तिनो बाधको वा भवत्येव। `अस्त्रिया'मिति निषेधस्तु नास्ति, `तस्य `णचः स्त्रिया'मित्यधिकारोक्तत्वाऽभावात्।

तत्त्वबोधिनी

542 वासरूपो [ऽस्त्रियाम्]। अपवादेन नित्यं बाधे प्राप्ते क्वचिदुपसर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम्। अतएव `अचो यत्' , `ऋहलोण्र्यत्' इत्याद्यपवादविषयेतव्यदादयोऽपि प्रयुज्यन्ते–भव्यम्, भवितव्यम्। कार्यं, कर्तव्यं,करणीयम्। वाच्यम्, वक्तव्यमित्यादि। परिभाषेति। अधिकारसूत्रमिति। स्वीकृते तु स्त्र्यधिकारेण विच्छेदाद्वासरूपसूत्राऽप्रवृत्त्या `आसित्वा भुङ्क्ते' `आस्यते भोक्तु'मित्यादिरूपाणि न सिध्यन्ति। इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते, क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति, लकारोऽपि तत्रैवेति समानविषयत्वादुभयोर्बाध्यबाधकभावः स्यात्। किंच वर्णात्कार इत्युत्सर्गः, सच `रादिफः' इत्यनेन बाध्येत। न चेष्टापत्तिः। `रकारादीनि नामानि शृण्वतो मम पार्वति' इत्यादिप्रयोगविरोधात्। अमुमेवार्थं मनसि निधाय हरदत्तादिभिः परिभाषेयमित्युक्तम्। एतेन `शकि लिह् चे'ति ज्ञापकाद्वासरूपविधेरनित्यत्वेन स्त्र्यधिकारादुत्तरेषु क्तल्युट्?तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति सिद्धान्तः सङ्गच्छत इति दिक्। `वासरूपे' त्यत्राऽसरूप इति च्छेदः। अन्यथा लाघवेविशेषाऽभावेनाऽसंदेहाय `सरूपो वे'ति ब्राऊयादित्याशयेनाह–असरूपैति। असरूप इति किम् ?। `कर्मण्यण्' इत्युसर्गः। `आतोऽनुपसर्गे कः' इत्यपवादः। स तूत्सर्गस्य नित्यं बाधको यथा स्यात्। गोदः। कम्बलदः। न च कृतेऽप्यसरूपग्रहणे अण्कयोरप्यसरूपत्वान्नेष्टसिद्धिरिति वाच्यं, `नाऽनुबन्धकृतमसारूप्य'मिति सिद्धान्तात्। `अस्त्रिया'मित्यत्र स्त्रीशब्दः स्वर्यते। स्वरितेन चाधिकारावगतिरित्याशयेनाह– स्त्र्यदिकारोक्तं विनेति। तेन `स्त्रियां क्तिन्' इत्युत्सर्गम् अप्रत्यया' दित्यपवादो नित्यं बाधते। चिकीर्षा। जिहीर्षा। नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाऽधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिर्नेति, स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिर्नेति वा व्याख्यायतामितिचेत्। अत्राहुः– `स्त्रियां वाच्याया'मिति पक्षे लव्या लवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचकत्वात्। `स्त्रिया'मिति शब्दोच्चारणपक्षे तु व्यावक्रोशी व्यावक्रुष्टिरिति कर्मव्यतिहारे णचो विषये क्तिन् स्यात्। द्वयोरपि स्त्रियामित्युच्चार्य विधानात्। ततश्च `स्त्र्यधिकारोक्तं विने'ति व्याख्यैव ज्यासीति दिक्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अस्मिन् धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना । In this “धातोः” अधिकारः (running from 3-1-91 up to the end of Chapter Three of the अष्टाध्यायी) a non-uniform affix prescribed by an exception (अपवादः) rule only optionally blocks the introduction of its general (उत्सर्गः) counterpart, as long as the affixes are not in the ”स्त्रियाम्” अधिकारः (running from 3-3-94 स्त्रियां क्तिन् up to 3-3-112 आक्रोशे नञ्यनिः।) Note: An affix is असरूपः (non-uniform) with another affix if, after removing the इत् letters, the two affixes don’t have the same form.