Table of Contents

<<3-1-38 —- 3-1-40>>

3-1-39 भीह्रीभृहुवां श्लुवच् च

प्रथमावृत्तिः

TBD.

काशिका

ञिभी भये, ह्री लज्जायाम्, डुभृञ् धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आम् प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन् कार्यं भवति। किं पुनस् तत्? द्वित्वम् इत्त्वं च। बिभायाञ् चकार, विभाय। जिह्रयाञ् चकार, जिह्राय। बिभराञ् चकार, बभार। जुहवाञ् चकार, जुहाव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

610 एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च. जुहवाञ्चकार, जुहाव. होता. होष्यति. जुहोतु, जुहुतात्. जुहुताम्. जुह्वतु. जुहुधि. जुहवानि. अजुहोत्. अजुहुताम्..

बालमनोरमा

321 भीहि। भी ह्यी भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी। `कास्प्रत्यया'दित्यत आम् लिटीत्यनुवर्तते। तदाह–एतेभ्य इति। `श्लुव'दिति सप्तम्यन्ताद्वतिरित्यभिप्रेत्य आह–आमि श्लाविव कार्यं चेति। जुहवामनिति। आमि श्लाविव द्वित्वे गुण इति भावः। जुहावेति। जुहुवतुः। जुहविथ जुहोथ। जुहुधि। हेर्धिरिति। `हुझल्भ्यो हेर्धि'रित्यनेनेति भावः। `जुहवानी'त्यत्र आटः पित्त्वेन अङित्?तवाद्गुणे प्राप्ते तं बाधित्वा `हुश्नुवो'रिति यणि प्राप्ते आह–आटि परत्वादिति। `हुश्नुवो'रित्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः। लङि–अजुहोत् अजुहुतामिति सिद्धवत्कृत्य `सिजभ्यस्ते'ति जुसि `हुश्नुवो'रिति यणमाशङ्क्याह- - परत्वाज्जुसि चेति गुण इति अजुहवुरिति। अजुहोः अजुहुतम् अजुहुत अजुहवम् अजुहुव अजुहुम। अहौषीदिति। सिचि वृद्धिः। अहौष्टामित्यादि। अहोष्यत्। ञि भी भये इति। अनिट्। ईदन्तः। शपः स्लौ द्वित्वादि मत्वाह– बिभेतीति।

तत्त्वबोधिनी

277 आटीति। `आडुत्तमस्ये'त्यनेन। परत्वादिति। `हुश्नुवो'रिति यणपेक्षया परत्वादित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.