TBD.
भम् इति वर्तते। तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसंज्ञं भवति। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। सकारान्तम् पयस्वी। यशस्वी। तसौ इति किम्? तक्षवान् ग्रामः।
TBD.
1189 तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे. गरुत्मान्. वसोः संप्रसारणं. विदुष्मान्. (गुणवचनेभ्यो मतुपो लुगिष्टः). शुक्लो गुणोऽस्यास्तीति शुक्लः पटः. कृष्णः..
1871 ननु विद्वच्छब्दान्मतुपि यजादिस्वादिपरकत्वाऽभावेन भत्वाऽभावात् `वसोः संप्रसारण'मिति करथं संप्रसारणमित्यत आह–तसौ मत्वर्थे। मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह- तान्तसान्ताविति। तकारसकारान्तावित्यर्थः। गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दास्त एव गृह्रन्ते, नतु रूपादिशब्दा अपि।तेन `रूपं वस्त्र'मित्यादि न भवति। अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः।
–
TBD.