Table of Contents

<<1-4-12 —- 1-4-14>>

1-4-13 यस्मात् प्रत्ययविधिस् तदादि प्रत्यये ऽङ्गम्

प्रथमावृत्तिः

TBD.

काशिका

यस्मात् प्रत्ययो विधीयते धातोर् वा प्रातिपदिकाद् वा तदादि शब्दरूपं प्रत्यये परतो ऽङ्गसंज्ञं भवति। कर्ता। हर्ता। करिष्यति हरिष्यति। अकरिष्यत्। औपगवः। कापटवः। यस्मातिति संज्ञिनिर्देशार्थम्, तदादि इति सम्बन्धात्। प्रत्ययग्रहणं किम्? न्यविशत। व्यक्रीणीत। नेर् बिशः 1-3-17 इत्युपसर्गाद् विधिरस्ति, तदादेरङ्गसंज्ञा स्यात्। विधिग्रहणं किम्? प्रत्ययपरत्वम् आत्रे मा भूत्। स्त्री इयती। तदादिवचनं स्यादिनुम् अर्थम्। करिष्यावः। करिष्यामः। कुण्डानि। पुनः प्रत्ययग्रहणं किम् अर्थम्? लुप्तप्रत्यये मा भूत्। श्र्यर्थम्। भ्र्वर्थम्। अङ्गप्रदेशाः अङ्गस्य 6-4-1 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

133 यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्..

बालमनोरमा

198 राम-आ इति स्थिते अङ्गकार्यं वलिधास्यन्नङ्गसंज्ञामाह - यस्मात्प्रत्ययविधि। यस्मादिति। प्रकृतिभूतादित्यर्थः। यः प्रत्यय इति। यच्छब्दान्तराध्याहारस्तु प्रत्यासत्तिलभ्यः। स च यस्माद्यस्य प्रत्ययस्य विधिस्तस्मिन्प्रत्यये तदादेरङ्गसंत्रेत्यर्थलाभाय। तत्प्रकृतिरूपमादिर्यस्य तत्–तदादि। नपुंसकवाशाच्छब्दरूपमित्यध्याहार्यम्। तदाह–तदादि शब्दस्वरूपमिति। प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यभूधातोर्लट्। मिप्। कर्तरि शवबिति विकरणसंज्ञः शप्। गुणावादेशौ अतो दीर्घो यञीति भवेत्यङ्गस्य दीर्घः। भवामीति रूपम्। तथा भूधातोर्लृट् मिप्। `स्यातासी लृलुटोः' इति विकरणसंज्ञः स्यः। इट् गुणावादेशौ। षत्वम्। `अतो दीर्घो यञी'ति `भविष्य' इत्यङ्गस्य दीर्घः। ` भविष्यामी'ति रूपम्। अत्र आदिग्रहणाऽभावे मिप्प्रत्यये परतो भू इति प्रकृतिमात्रस्य अङ्गसंज्ञा स्यात्, भूशब्दादेव मिप्प्रत्ययविधेः, नतु `भव' इत्यस्य, `भविष्य' इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात्। ततश्च `अतो दीर्घो यञी'ति मिप्प्रत्यये परतो दीर्घो न स्यात्। अत आदिग्रहणमित्यर्थः। विधिरिति किमिति। यस्माद्यः प्रत्यय#ः। परत्वेन श्रूयते तदादि शब्दरूपं तस्मिन् प्रत्यये अङ्गसंज्ञामित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः। स्त्री इयतीति। इदं परिमाणमस्या इत्यर्थे इदंशब्दात् `किमिदंभ्यां वो घः' इति वतुप्, वस्य घश्च। तस्य इयादेशः। `इदंकिमोः' इति इदम् ईश्। शित्त्वात्सर्वादेशः। ई-इयत् इति स्थिते `यस्येति च' इतीकारलोपः। इयदिति प्रत्ययमात्रमवशिष्यते। `उगितश्चे'ति ङीपि इयतीति रूपम्। अत्र विधिग्रहणाऽभावे स्त्री-इयतीत्यत्र रेफादीकारस्य `स्त्रियाः' इत्यङ्गकार्यमियङ् स्यात्। स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य श्रूयमाणत्वात्। न च यस्येति लोपस्याभीयत्वेना।ञसिद्धत्वादजादिप्रत्ययपरकत्वाऽभावान्नात्र इयङः प्राप्तिरिति वाच्यम्, अन्यूनानतिरिक्तसमानाश्रये कार्ये कर्तव्य एव आभीया।ञसिद्धत्वस्य प्रवृत्तेः। अस्ति च यस्येति चेति शास्त्रापेक्षया `स्त्रिया' इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा। कृते तु विधिग्रहणे इयङत्र न भवति, बतुप् इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाऽभावात्। न च यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्क्यः, पदान्तविधौ तन्निषेधात्। स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तेः। प्रत्यये किमिति। `यस्मात्प्रत्ययविधिस्तदाद्यङ्ग'मित्येतावदेवास्त्वित्यर्थः। प्रत्ययविशिष्यस्य ततो।ञप्यधिकस्य वा मा भूदिति। तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात्प्रत्ययविशिष्टं वा, ततोऽप्यधिकं वा निरवधिकमङ्गं स्यात्। नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात्प्रत्ययावध्येवाङ्गत्वं भविष्यतीति वाच्यम्, यस्मात्प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात्। ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वव्रश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वाऽलाभादचः परस्मिन्निति स्थानिवत्त्वाऽप्रवृत्त्या `न सम्प्रसारण' इति सम्प्रसारणनिषेधो न स्यात्। अधिकस्याङ्गत्वे च `देवदत्त् ओदनमापाक्षी'दित्यादौ देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापत्तिः, अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाऽभावेन लुङादिनिरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात्।`प्रत्यये' इत्युक्तौ तु न कोऽपि दोष इत्यलम्।

तत्त्वबोधिनी

166 यस्मात्। तदादीति। तत्प्रकृतिरूपमादिर्यस्य शब्दस्वरूपस्येति बहुव्रीहिः। आह-भवामीत्यादि। प्रकृतिमात्रस्य तु व्यपदेशिवद्भवेन तदादित्वादङ्गत्वम्, तेन `कर्ता' `कारक' इत्याद्यपि सिध्यतीति भावः। अङ्गसंज्ञार्थमिति। अन्यथा `अतो दीर्घो यञी'ति दीर्घो न स्यादिति भावः। नचारम्भसामथ्र्यादेव दीर्घः स्यादिति वाच्यम्। `पय गतौ' `वय गतौ' आभ्यां यङ्लुकि पापामि पापावः, वावामि वावाव इत्यादौ चरितार्थत्वात्। स्त्रीइयतीति। इदमः परिमाणे वतुप्। `किमिदभ्यां वो घ' इति घः। तस्य इयादेशः। `इदंकिमो'रिति ईश्। `यस्येति च' इति ईशो लोपः। `उगितश्च' इति ङीप्। सत्यां संज्ञायां स्त्रीशब्दस्य `यस्येति च' इति लोपः स्यात्। न चेशो लोपस्य `असिद्धवदत्राभा'दित्यसिद्धत्वान्नातिप्रसङ्ग इति वाच्यम्, `प्राग्भादसिद्धत्व'मिति पक्षाभ्युपगमादनित्यत्वाद्वेति व्याख्यातारः। नव्यास्तु- `स्त्री अंपश्यती'त्यत्र स्त्रीशब्दस्य `स्त्रियाः' इति इयङ् स्यात्। अकारादमि कृते `अमि पूर्वः' इत्येकादेशस्य परादिवद्भावेन प्रत्ययत्वात्। अततेर्डप्रत्यये टिलोपे च सत्यकारस्य स्वत एव प्रत्ययत्वाच्च। विधिग्रहणे कृते तु नायं दोषः प्रसज्यते। अम्प्रत्ययस्य अकाराड्डप्रत्ययस्य चाततेर्विहितत्वेऽपि स्त्रीशब्दादविधानात्। स्यादेतत्। वतुपोऽम्प्रत्ययस्य च स्त्रीशब्दादविधानेऽपि सोर्विधिरस्त्येवेति तद्दोषतावदवस्थ्यमिति चेन्मैवम्, संनिधानबलेन `यस्माद्यः प्रत्ययो विहितस्तस्मिस्तदङ्ग'-मिति व्याख्यानात्। प्रत्यये किमिति। `तदादिरूपं किय'दित्यपेक्षयां यस्मात्प्रत्यय इति प्रत्ययस्य श्रुतत्वात्प्रत्ययपर्यन्तमेवाङ्गं भविष्यतीति मत्वा प्रश्नः। प्रत्ययस्य श्रुतत्वेऽपि प्रत्ययविशिष्टं, ततोऽप्याधिकं वा निरवधिकमङ्गं स्यात्, तदादीत्यस्यार्थनिर्णये प्रत्ययश्रवणस्योपक्षयादित्याशयेन व्याचष्टे– प्रत्ययविशिष्टस्येत्यादिना। प्रत्ययविशिष्टस्येति किम् ?। वव्रश्च। अत्र विशिष्टस्याङ्गसंज्ञायाम् `उरत्' इत्यादेशस्य परनिमित्तत्वाऽलाभात् `अचः परस्मिन्नि'ति स्थानिवत्त्वाऽप्रवृत्त्या `न संप्रसारणे–' इति निषेधाऽभावादभ्यासस्य पुनरपि संप्रसारणं प्रवर्तेत। तथा `श्यर्थं' भ्र्वर्थमित्यत्र `अचि श्नुधातुभ्रुवाम्-,'इति इयुङुवङौ स्याताम्, उक्तरीत्या अचीप्यनेनाजादौ प्रत्यये इत्यलाभात्। ततोऽधिकस्याङ्गसञ्ज्ञायान्तु `देवदत्त ओदनमपाक्षी'दित्यत्र देवदत्तशब्दात्प्रागडागमः स्यात्, देवदत्तशब्दासुत्प्रत्ययस्य विहितत्वेन लुडः प्राग्वर्तिसमुदायस्याऽङ्गत्वात्। द्वितीयप्रत्ययग्रहणे कृते तु न कोऽपि दोषः प्रसज्यते। अन्ये तु यस्माल्लुङादिविधिः प्रत्यासत्त्या तस्यैवाङ्गस्याडागमः स्यादिति ततोऽप्यधिकस्येत्येतदनास्थयोक्तं, किंतु एतस्यापि प्रत्ययविशिष्टस्याङ्गत्वे यद्दूषणं तदेवेत्यहुः।

Satishji's सूत्र-सूचिः

52) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् 1-4-13

वृत्ति: य: प्रत्ययो यस्मात् क्रियते तदादि शब्दस्वरूपं तस्मिन्नङ्गं स्यात् । When an affix is prescribed to come after a term, then the word form starting with that term up to the affix is said to be the अङ्गम् (base) in relation to that affix.

गीतासु उदाहरणम् – श्लोकः bg1-1

सञ्जय + सुँ The अङ्गम् for the affix सुँ is सञ्जय.