TBD.
तस्य अपत्यम् इत्येव। गोत्रसंज्ञके ऽपत्ये वाच्ये कुञ्जादिभ्यः च्फञ् प्रत्ययो भवति। इञो ऽपवादः। चकारो विशेषणार्थः व्रातच्फञोरस्त्रियाम् 5-3-113 इति। ञकारो वृद्ध्यर्थः। कौञ्जायन्यः, कौजायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः। गोत्रे इति किम्? कुञ्जस्य अपत्यम् अनन्तरं कौञ्जिः। एकवचनद्विवचनयोः सतिशिष्टत्वात् ञित्स्वरेण एव भवितव्यम्। बहुवचने तु कौञ्जायनाः इति, परम् अपि ञित्स्वरं त्यक्त्वा चित्स्वर एव इष्यते। गोत्राधिकारश्च शिवादिभ्यो ऽण् 4-1-112 इति यावत्। कुञ्ज। ब्रध्न। शङ्ख। भस्मन्। गण। लोमन्। शठ। शाक। शाकट। शुण्डा। शुभ। विपाश। स्कन्द। स्तम्भ।
TBD.
–
1083 गोत्रे कुञ्ज। स्पष्टम्। इञोऽपवादः। च्फञिचञावितौ।
906 गोत्रे कुञ्जा। इतः प्राक् `एकौ गोत्रे'इत्यादि सूत्रद्वयं चेत्पठ\उfffद्ते तह्र्रत्रत्यं गोत्राग्रहणं त्यक्तुं शक्यमित्याहुः। च्फञो ञकारो वृद्द्यर्थः। कौञ्जायन्यः। चकारस्तु `व्रातच्फञौ'रित्यत्र विशेषणार्थः। तेन `अ\उfffदाआदिभ्यः फञ्' आ\उfffदायन इत्यत्र ञ्यो न भवति। अत्रेदमदधेयं—कौञ्जायन्य इत्यादावेकवचने द्विवचने च ञ्यस्य ञित्त्वादाद्युदात्तत्वमेव। बहुत्वे तु ञ्यस्य लुकि च्फञश्चकारकारस्योस्तुल्यबलयोर्विरोधेसति परत्वाञ्?ञित्स्वरेणाद्युदात्तत्वे प्राप्ते भाष्यादौ `तद्धितस्य कितः' इत्यत्र योगं विभज्य `चितः'इत्यनुवर्त्त्य `तद्धितस्य चितोऽन्तोदात्तत्वम्'इति व्याख्यानात् `कौञ्झायनाः'इत्यत्रान्तोदात्ततैव भवति। न चैवं हि फगेवात्रास्तु किमनेन गुरुनिर्देशेनेति वाच्यं, तथा हि सति `व्रातफकोरस्त्रिया'मिति सूत्रप्रणयनापत्त्या नाडायनादिभ्योऽपि ञ्यः स्यादिति। कुञ्ज, व्रध्न, शङ्ख, शकटेत्यादि।
TBD.