Table of Contents

<<3-2-96 —- 3-2-98>>

3-2-97 सप्तम्यां जनेर् डः

प्रथमावृत्तिः

TBD.

काशिका

सप्तम्यन्त उपपदे जनेर् धतोः डः प्रत्ययो भवति। उपसरे जातः उपसरजः। मन्दुरजः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

814

बालमनोरमा

817 सप्तम्यां जनेर्डः। सप्तम्यन्ते उपपदे जनेर्भूताऽर्थाड्ड इत्यर्थः। सरसिजमिति। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। `हलदन्ता'दिति, `तत्पुरुषे कृतीटति वा अलुक्। मन्दुरज इति। `वाजिशाला तु मन्दुरे'त्यमरः।

तत्त्वबोधिनी

674 मन्दुरायामिति। `वाजिशाला तु मन्दुरा' इत्यमरः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः सप्तम्यन्त उपपदे जनेर्भूते डः स्यात् । When in composition with a पदम् which ends in the seventh (locative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix “ड” provided the verbal root is used to denote an action in the past tense.

उदाहरणम् – सरसि जातमिति सरसिजम्/सरोजम्।

सरस् + ङि + जन् + ड 3-2-97
Note: In the सूत्रम् 3-2-97, the term सप्तम्याम् ends in the seventh (locative) case. Hence “सरस् + ङि” gets the उपपद-सञ्ज्ञा here by 3-1-92
= सरस् + ङि + जन् + अ 1-3-7, 1-3-9
= सरस् + ङि + ज् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= सरस् + ङि + ज

Now we form the compound between “सरस् + ङि” (which is the उपपदम्) and “ज” using the सूत्रम् 2-2-19. Note: Here “सरस् + ङि” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “सरस् + ङि” is placed in the prior position as per 2-2-30 “सरस् + ङि + ज” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Example continued under 6-3-14