TBD.
षकारः प्रत्ययसय आदिः इत्संज्ञः भवति। शिल्पिनि ष्वुन् 3-1-145 नर्तकी, रजकी। प्रत्ययस्य इति किम्? षोडः, षण्डः, षडिकः। आदिः इत्येव अविमह्योष्टिषच् अविषः, महिषः।
TBD.
842 प्रत्ययस्यादिः ष इत्संज्ञः स्यात्. जल्पाकः. भिक्षाकः. कुट्टाकः. लुण्टाकः. वराकः. वराकी..
467 षऋ प्रत्ययस्य। `आदिर्ञिटुडवः' इत्यत आदिरित्यनुवर्तते। `उपदेशेऽजनुनासिक इ'दित्यत इदिति च। तदाह–प्रत्ययस्यादिरिति। षकारस्य इत्संज्ञायां तस्य लोपः।
421 षः प्रत्ययस्य। `आदिर्ञिटुडवः'इत्यत `आदि'रित्यनुवर्तत इत्यभिप्रकेत्याह— प्रत्ययस्यादिरिति। प्रत्ययस्य किम्? षोडश।`षष उत्व'मित्यत्र उपदेशस्थोऽयं षकारस्येत्संज्ञा न भविष्यति, टित्वादेवाऽविषी महिषीति रूपसिद्धेः। न च पक्षे ङीष्यन्तोदात्तः प्रयोजनमिति वाच्यम्, `अनुदात्तस्य च यत्रोदात्तलोपः'इत्युदात्तनिवृत्तिस्वरेण टितः परस्य ङीपोऽप्युदात्तत्वात्। अत्राहुः—विनिगमनाऽभावेव पक्षे टकारस्याऽपि श्रवणं स्यात्। तथा च षित्त्वान्ङीषि `अविषी'त्यादिरुपसिद्धिः स्यात्। अतः षकारस्यैव श्रवणं भवतु मा कदाचिट्टकारस्य श्रवणं भूदित्येतदर्थमादिग्रहणानुवृत्तिरिति।
TBD.