Table of Contents

<<5-2-25 —- 5-2-27>>

5-2-26 तेन वित्तश् चुञ्चुप्चणपौ

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् वित्तः इत्येतस्मिन्नर्थे चुञ्चुप् चणपित्येतौ प्रत्ययौ भवतः। वित्तः प्रतीतः ज्ञात इत्यर्थः। विद्यया वित्तः विद्याचुञ्चुः, विद्याचणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1804 तेन वित्तः। तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः। वित्तः=प्रसिद्धः। चस्य नेत्संज्ञेति। उपदेशे आदित्वाऽभावादिति भावः।

तत्त्वबोधिनी

1393 तेन वित्तः। वित्तः=प्रतीतः। `वित्तो भोगप्रत्ययो'रिति निपातनात् `रदाभ्यां निष्ठातो नः'इति नत्वं न। लुप्तनिर्दिष्ट इति। `चुटुषाः प्रत्ययस्ये'ति वक्तव्ये पृथग्योगकरणात् `चुटू' इत्येतदनित्यमिति समाधानान्तरमप्याहुः।

Satishji's सूत्र-सूचिः

TBD.