Table of Contents

<<5-2-25 —- 5-2-27>>

5-2-26 तेन वित्तश् चुञ्चुप्चणपौ

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् वित्तः इत्येतस्मिन्नर्थे चुञ्चुप् चणपित्येतौ प्रत्ययौ भवतः। वित्तः प्रतीतः ज्ञात इत्यर्थः। विद्यया वित्तः विद्याचुञ्चुः, विद्याचणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1804 तेन वित्तः। तृतीयान्ताद्वित्त इत्यर्थे चुञ्चुप्चणपौ भवत इत्यर्थः। वित्तः=प्रसिद्धः। चस्य नेत्संज्ञेति। उपदेशे आदित्वाऽभावादिति भावः।

तत्त्वबोधिनी

1393 तेन वित्तः। वित्तः=प्रतीतः। `वित्तो भोगप्रत्ययो'रिति निपातनात् `रदाभ्यां निष्ठातो नः'इति नत्वं न। लुप्तनिर्दिष्ट इति। `चुटुषाः प्रत्ययस्ये'ति वक्तव्ये पृथग्योगकरणात् `चुटू' इत्येतदनित्यमिति समाधानान्तरमप्याहुः।

Satishji's सूत्र-सूचिः

TBD.