Table of Contents

<<5-2-122 —- 5-2-124>>

5-2-123 ऊर्णाया युस्

प्रथमावृत्तिः

TBD.

काशिका

ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्यर्थे। सकारः पदसंज्ञार्थः। ऊर्णा अस्य विद्यते ऊर्णायुः। केचिच् छन्दोग्रहणम् अनुवर्तयन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1903 ऊर्णाया युस्। ऊर्णायुशब्दे `यस्येति चे'ति लोपमाशङ्क्याह–सित्त्वादिति। अनुवर्तयन्तीति। `बहुलं छन्दसीत्यस्मा'दिति शेषः।

तत्त्वबोधिनी

1463 पदत्वमिति। तेन `यस्येति चे'ति लोपो न प्रवर्तत इति भावः। अनुवर्तयन्तीति। `बहुलं छन्दसी'त्यतः।

Satishji's सूत्र-सूचिः

TBD.