TBD.
अजन्ताद् धातोः यत् प्रत्ययो भवति। तकारो यतो ऽनावः 6-1-213 इति स्वरार्थः। गेयम्। पेयम्। चेयम्। जेयम्। अज्ग्रहणं किं यावता हलन्ताण् ण्यतं वक्ष्यति? अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यम्। तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् तकि तक्यम्। शसि शस्यम्। चति चत्यम्। यति यत्यम्। जनि जन्यम्। हनो वा वध च। वध्यम्, घात्यम्।
TBD.
776 अजन्ताद्धातोर्यत् स्यात्. चेयम्..
663 अचो यत्। शक्यमकर्तुमिति। `ऋहलोण्र्य'दिति ऋहलन्ताद्विशिष्य ण्यतो विहितत्वेन हलन्तेभ्यो यत्प्रत्यस्याऽप्रवृत्तिरित्यर्थः। वासरूपविधिस्तु सरूपत्वान्न भवति। योगविभागोऽप्येवमिति। कर्तुमशक्य इत्यर्थः। कुत इत्यत आह– तव्यदादिष्वेवेति। `तव्यत्तव्यानीयर्यतः इत्येकसूत्रत्वेनैव पठितुं शक्यत्वादित्यर्थः।
552 अचो यत्। धातोरिति वर्तते। अज्ग्रहणं च धातोर्विशेषणं, विशेषणेन तदन्तविधिस्तदाह–अजन्तादिति। शक्यमकर्तुमिति। अत्र केचिदज्ग्रहणमजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थपेक्षितम्। तेन दित्स्यं धित्स्यमित्त्र यति कृते `यतोऽनावः' इत्याद्युदात्तत्वं सिध्यति, ण्यति कृतेतु `तित्स्वरितम्' इति प्रसज्येत। न च दित्स्यं धित्स्यमित्यत्र `ऋहलोः' इति ण्यतः प्रसक्तिरेव नास्तीति वाच्यम्, आद्र्धदातुकविवक्षायामेव अतो लोपे कृते हलन्तत्वेन तत्संभवादित्याहुस्तदापाततः। आद्र्धधातुके विवक्षिते यद्यतो लोपः स्यात्तदा हीदं संभवेत्। लोपस्तु आद्र्धधातुके पर एवोचितः। अन्यथा परनिमित्तत्वाऽभावेन स्थानवत्त्वाऽभावे गणयतीत्यादावुपधावृद्धिप्रसङ्गादिति भावः। सुपठत्वादिति। द्वये धातवोऽजन्ता हलन्ताश्च। तत्र हलन्ताण्ण्यन्तं वक्ष्यतीति परिशेषादज्तादेव यद्भविष्यतीति भावः। तकिशसीति। तक हसने। शसु हिंसायाम्। चते याचने। यत्तु केचिच्छंसीति सानुस्वारं पठन्ति तदुपेक्ष्यम्, `ईडवन्दवृशंसदुहां ण्यत' इति सूत्राऽविरोधेन शंसेण्र्यत एव स्वीकर्तव्यत्वात्।
वृत्तिः अजन्ताद्धातोर्यत् स्यात् । The affix यत् may be used following a verbal root ending in a vowel.
उदाहरणम् – चेयम् derived from √चि (चिञ् चयने ५. ५).
चि + यत् 3-1-97
= चि + य 1-3-3, 1-3-9. Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चेय 7-3-84
“चेय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
चेय + सुँ 4-1-2
= चेय + अम् 7-1-24, 1-3-4
= चेयम् 6-1-107
Note: As per 3-1-94, the forms चेतव्यम् and चयनीयम् derived by applying 3-1-96 may also be used optionally.
The verbal root √हन् (हनँ हिंसागत्योः २. २) optionally takes the affix “यत्” and simultaneously √हन् is substituted by “वध”।
Note: In the other case the affix “ण्यत्” is used as per 3-1-124 ऋहलोर्ण्यत्।
उदाहरणम् – वध्यम्/घात्यम् derived from √हन् (हनँ हिंसागत्योः २. २).
“यत्”-पक्षे
वध + यत् By the वार्तिकम् (under 3-1-97 अचो यत्) हनो वा वध च।
= वध + य 1-3-3, 1-3-9. Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= वध् + य 6-4-48
“वध्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
“ण्यत्”-पक्षे
हन् + ण्यत् 3-1-124
= हन् + य 1-3-3, 1-3-7, 1-3-9. Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= घन् + य 7-3-54
= घत् + य 7-3-32
= घात् + य 7-2-116
“घात्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46