Table of Contents

<<5-3-23 —- 5-3-25>>

5-3-24 इदमस् थमुः

प्रथमावृत्तिः

TBD.

काशिका

इदंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। थालो ऽपवादः अनेन प्रकारेण इत्थम्। उकारो मकारपरित्राणार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1219 थालोऽपवादः. (एतदोऽपि वाच्यः). अनेन एतेन वा प्रकारेण इत्थम्..

बालमनोरमा

1947 इदमस्थमुः। इदंशब्दात्प्रकारवृत्तेस्थमुप्रत्ययः स्यादित्यर्थः। प्रत्यये उकार उच्चारणार्थः। मकारस्य उपदेशेऽन्त्यत्वाऽभावान्नेत्त्वम्। यद्यपि `न विभक्तौ' इति निषेधादेव मस्येत्त्वं न भवति, ततापि तदनित्यत्वज्ञापनार्थं मकारोच्चारणमित्याहुः। इत्थमिति। `एतेतौ रथो'रिति प्रकृतेरिदम इदादेशः। एतच्छब्दात्थमुप्रत्यये तु `एतद' इति योगविभागादिदादेशः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.