Table of Contents

<<1-1-40 —- 1-1-42>>

1-1-41 अव्ययीभावश् च

प्रथमावृत्तिः

TBD.

काशिका

अव्ययीभावसमासो ऽव्ययसंज्ञो भवति। किं प्रयोजनम्? लुङ्मुखस्वरौपचाराः। लुक् उपाग्नि, प्रत्यग्नि शलभाः पतन्ति। मुखस्वरः उपाग्निमुखः, प्रत्यग्निमुखः। मुखं स्वाङ्गम् 6-2-167 इत्युत्तरपदान्तौदात्तत्वं प्राप्तम्, नाव्ययदिक्शब्द 6-2-168 इति प्रतिषिध्यते। तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति। उपचारः उपपयःकारः, उपपयःकामः। विसर्जनीयस्थानिकस्य सकारस्य उपचारः इति संज्ञा। तत्र अव्ययीभावस्य अव्ययत्वे अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य 8-3-46 इति पर्युदासः सिद्धो भवति। सर्वम् इदं काण्डं स्वरादावपि पठ्यते। पुनर् वचनम् अनित्यत्वज्ञापनार्थम्। तेन अयं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः, पुरा क्रूरस्य विसृपो विरप्शिनिति न लौउकाव्ययनिष्ठाखलर्थतृनाम् 2-3-69 इति षष्ठीप्रतिषेधो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

372 अधिहरि..

बालमनोरमा

445 अव्ययीभावश्च। `अव्ययसंज्ञः स्या'दिति शेषः। अधिहरीति। विभक्तयर्थेऽव्ययीभावः। हरावित्यर्थः।

तत्त्वबोधिनी

402 अव्ययीभावश्च। अव्ययसंज्ञः स्यात्। इह `लुकि मुखस्वरोपचारयोर्निवृत्तौचे'ति परिगणनं कर्तव्यम्। लुक्युदाहरमम्—उपग्नि। `अव्यया'दिति सुपो लिक्। मुखस्वरनिवृत्तौ उदाहरणम्—उपग्निमुखः। प्रत्यग्निमुखः। `मुखं स्वाङ्ग'मित्युत्तरपदान्तोदात्तत्वे प्राप्ते `नाव्ययदिक्शब्दे'त्यदिना प्रतिषेधः। तथाच `बहुव्रीहौ प्रकृत्ये'ति पूर्वशब्दप्रकृतिस्वर एव भवति, पूर्वपदं च समासस्वरेणाऽन्तोदात्तम्। विसर्गस्थानिकस्य सकारस्य `उपचार'इति प्राचां संज्ञा, तन्निवृत्तावुदाहरणम्—उपपयःकारः।उपपयःकामः। इह `अतः कृकमी'ति प्राप्तं सत्वम् `अनव्ययस्ये'ति पर्युदस्यते। परिगणनं किम्?। उपागन्धीयान। इह `सुबामन्त्रिते'इति पराङ्गवद्भावेन याने'त्यादौ मा भूदिति। तथा `उपाग्निक'मित्यादौ अव्ययसर्वनाम्ना`मित्यकच्[च]न। उपकुम्भंमन्यः। `खित्यनव्ययस्ये'ति वर्तमाने `अरुर्द्विषदजन्तस्येति विहितो यो मुस्तस्येह प्रतिषेधो न। उपकुम्भीभूतः। इह `अस्य च्वौ' इतीत्त्वस्य`प्रतिषेधो न। ईस्वविधौ हि 'अव्ययस्य च्वावितीत्वं ने`ति प्रतिषे उच्यते, दोषाभूतमाहः दिवाभूता रात्रिरित्यत्र मा भूदिति। स्यादेतत्– स्वारादित्वेनैव सिद्धत्वात्। `तद्धितश्चे'त्यादि चतुःसूत्री व्यर्था। तत्र हि `तसिलादिस्तद्धित एदाच्पर्यन्तः'इत्यादिना `च्व्यर्थाश्चे'त्यन्तेनाऽऽसिप्रत्ययमौणादिकं वर्जयित्वा `तद्धितश्चासर्वविभक्तिः' इत्यस्याऽर्थः सङ्गृह्रते। `कृन्मकारसन्ध्यक्षरान्तः'इत्यनेन `कृन्मेजन्तः'इत्यस्यार्थः सङ्गृह्रते। `त्त्कातोसुन्कसुनः'`अव्ययीभावश्चे'ति सूत्रद्वयं तु स्वरूपेणैव पट\उfffद्त इति। अत्राहुः– पुनर्वचनमनित्यत्वज्ञापनार्थम्। तेन प्रागुक्तं `लुङ्मुखस्वरोपचाराः'इति परिगणनं लभ्यते। `पुरा सूर्यस्?योदेतोराधेयः'। `पुरा क्रूरस्य विसृपो विरप्श'न्नित्यासिद्धये `न लोकाव्यये'त्यत्र `अव्ययप्रतिषेधे तोसुन्कसुनोरप्रितषेधः'इति वक्ष्यते तदप्यनेनैव लभ्यत इति।

Satishji's सूत्र-सूचिः

274) अव्ययीभावश्च 1-1-41

वृत्तिः अव्ययीभावसमासोऽव्ययसंज्ञो भवति। The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables.
Note: The rules for forming अव्ययीभाव-समासाः are from 2-1-5 to 2-1-21.

उदाहरणम् – यथाशक्ति