Table of Contents

<<8-3-45 —- 8-3-47>>

8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य

प्रथमावृत्तिः

TBD.

काशिका

अकारादुत्तरस्य अनव्ययविसर्जनीयस्य समासे अनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः। कृ अयस्कारः। पयस्कारः। कमि अयस्कामः। पयस्कामः। कंस अयस्कंसः। पयस्कंसः। कुम्भ अयस्कुम्भः। पयस्कुम्भः। अयस्कुम्भी, पयस्कुम्भी इत्यत्र अपि भवति, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति। पात्र अयस्पात्रम्। पयस्पात्रम्। अयपात्री पयस्पात्री। कुशा अयस्कुशा। पयकुशा। कर्णी अयस्कर्णी। अपय्स्कर्णी। शुनस्कर्णः इत्ययं तु कस्कादिषु द्रष्टव्यः। अतः इति किम्? गोःकारः। धूःकारः। तपरकरणं किम्? भाःकरणम्। भास्करः इत्ययं तु कस्कादिषु द्रष्तव्यः। अनव्ययस्य इति किम्? श्वःकारः। पुनःकारः। समासे इत्येव, यशः करोति। पयः करोति। यशः कामयते। अनुत्तरपदस्थस्य इत्येव, परमपयःकारः। परमपयःकामः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

798 आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु. यशस्करी विद्या. श्राद्धकरः. वचनकरः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु । In a compound, a विसर्ग: always takes सकार: as a substitute if the following conditions are satisfied:
(i) the विसर्ग: is preceded by a अकार:
(ii) the विसर्ग: does not belong to a अव्ययम्
(iii) the विसर्ग: is followed by one of the following – √कृ (डुकृञ् करणे, # ८. १०), √कम् (कमुँ कान्तौ, # १. ५११), ’कंस’, ‘कुम्भ’, ‘पात्र’, ‘कुशा’ or ‘कर्णी’।

Example continued from 3-2-20

यश: + कर
= यशस्कर 8-3-46
= यशस्कर + ङीप् 4-1-15
= यशस्कर + ई 1-3-3, 1-3-8, 1-3-9. ‘यशस्कर’ gets the भ-सञ्ज्ञा here by 1-4-18
= यशस्कर् + ई 6-4-148, 1-1-52 = यशस्करी