Table of Contents

<<1-1-36 —- 1-1-38>>

1-1-37 स्वरादिनिपातम् अव्ययम्

प्रथमावृत्तिः

TBD.

काशिका

स्वरादीनि शब्दरूपाणि निपाताश्च अव्ययसंज्ञानि भवन्ति। स्वर्, अन्तर्, प्रातर्, एते अन्तौदात्ताः पठ्यन्ते। पुनराद्युदात्तः। सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक्, एते ऽपि सनुतर्प्रभृतयो ऽन्तोदात्ताः पठ्यन्ते। ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि, एते ऽपि ह्यस्प्रभृतयो ऽन्तोदात्ताः पठ्यन्ते। वत्वदन्तम् अव्ययसंज्ञं भवति। ब्राह्मणवत्। क्षत्रियवत्। सन्, सनात्, सनत्, तिरस्, एते आद्युदात्ताः पठ्यन्ते। अन्तराऽयमन्तोदात्तः। अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या। क्त्वातोसुङ्कसुनः, कृन्मकारान्तः, सन्ध्यक्षरान्तः, अव्ययीभावश्च। पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, समम, नमस्, हिरुक्, तसिलादिः तद्धित एधाच्पर्यन्तः, शस्तसी, कृत्वसुच्, सुच्, आस्थालौ, च्व्यर्थाश्च, अम्, आम्, प्रतान्, प्रषान्, स्वरादिः। निपाता वक्ष्यन्तेप्राग्रीश्वरान्निपाताः 1-4-56 इति। च, वा, ह, अह, एव, एवम् इत्यादयः। अव्ययप्रदेशाः अव्ययादाप्सुपः 2-4-82 इत्येवम् आदयः। अव्ययम् इत्यन्वर्थसंज्ञा। सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

369 स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः. स्वर्. अन्तर्. प्रातर्. पुनर्. सनुतर्. उच्चैस्. नीचैस्. शनैस्. ऋधक्. ऋते. युगपत्. आरात्. पृथक्. ह्यस्. श्वस्. दिवा. रात्रौ. सायम्. चिरम्. मनाक्. ईषत्. जोषम्. तूष्णीम्. बहिस्. अवस्. समया. निकषा. स्वयम्. वृथा. नक्तम्. नञ्. हेतौ. इद्धा. अद्धा. सामि. वत्. ब्राह्मणवत्. क्षत्रियवत्.. सना. सनत्. सनात्. उपधा. तिरस्. अन्तरा. अन्तरेण. ज्योक्. कम्. षम्. सहसा. विना. नाना. स्वस्ति. स्वधा. अलम्. वषट्. श्रौषट्. वौषट्. अन्यत्. अस्ति. उपांशु. क्षमा. विहायसा. दोषा. मृषा. मिथ्या. मुधा. पुरा. मिथो. मिथस्. प्रायस्. मुहुस्. प्रवाहुकम्, प्रवाहिका. आर्यहलम्. अभीक्ष्णम्. साकम्. सार्धम्. नमस्. हिरुक्. धिक्. अथ. अम्. आम्. प्रताम्. प्रशान्. प्रतान्. मा. माङ्. आकृतिगणोऽयम्.ॅह. वा. ह. अह. एव. एवम्. नूनम्. शश्वत्. युगपत्. भूयस्. कूपत्. कुवित्. नेत्. चेत्. चण्. कच्चित्. यत्र. नह. हन्त. माकिः. माकिम्. नकिः. नकिम्. माङ्. नञ्. यावत्. तावत्. त्वे. द्वै. त्वै. रै. श्रौषट्. वौषट्. स्वाहा. स्वधा. वषट्. तुम्. तथाहि. खलु. किल. अथो. अथ. सुष्ठु. स्म. आदह. (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च). अवदत्तम्. अहंयुः. अस्तिक्षीरा. अ. आ. इ. ई. उ. ऊ. ए. ऐ. ओ. औ. पशु. शुकम्. यथाकथाच. पाट्. प्याट्. अङ्ग. है. हे. भोः. अये. द्य. विषु. एकपदे. युत्. आतः. चादिरप्याकृतिगणः..तसिलादयः प्राक् पाशपः. शस्प्रभृतयः प्राक् समासान्तेभ्यः. अम्. आम्. कृत्वोर्थाः. तसिवती. नानाञौ. एतदन्तमप्यव्ययम्..

बालमनोरमा

तत्त्वबोधिनी

398 स्वरादिनिपातमव्ययम्। स्वरादयश्च निपाताश्चेतिसमाहारद्वन्द्वः। ननु चादिष्वेव स्वरादीन्पठित्वाप्रकृतसूत्रं परित्यज्य `तद्धितश्चासर्वे'त्यादि सूत्रचतुष्टयमपि `चादयोऽसत्त्वे'इत्यास्मादूध्र्वं कृत्वाऽव्ययप्रदेशेषु निपातशब्देनैव व्यवह्यियतामिति चेन्न, `स्वस्ति वाचयति'`स्वः पश्यति'`स्वः पतती'त्यादौ कर्मादिकारकयोगेन सत्त्ववाचकत्वात्तेषां निपातसंज्ञाऽनापत्तेः। चादीनां ह्रसत्त्ववाचिनामेव निपातसंज्ञा, न तु सत्त्ववाचिनाम्। स्वरादीनां तु सत्त्ववाचिनामसत्तववाचिनां चाऽव्ययसंज्ञेष्यत इति व्यवस्थाऽनापत्तेश्च। अथ `प्राग्री\उfffदारान्निपाताः'`स्वरादीनि'`चादयोऽसत्त्वे'इति सूत्र्यतां, तथा हि सति स्वरादीनां सत्त्ववचनानामपि निपातसंज्ञा सेत्स्यतीति चेन्नः, एवं हि सति `निपात एकाजना'ङिति प्रगृह्रसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत। स्तो हि स्वरादिषु `किमोऽत्'`दक्षिणदाच्'इत्यादावेकाचौ तद्धितौ। केन्प्रभृतय एकाचः कृत्प्रत्ययाश्च सन्ति। `तसिलादिस्तद्धित एधाच्पर्यन्तः'इति सूत्रस्य, `कृन्मकारसन्ध्यक्षरान्तः'इति सूत्रस्य च स्वरादिगणपपठित्वात्। यद्यप्यत्र मूले स्वरादिषु गणसूत्रद्वयमिदं न पठितं, तथापि प्राचां पाठ#ए त्वस्तीत्यनुपदमेव स्फुटीकरिष्यते। स्वरादीनुदाहरति—स्वरित्यादिना। स्वरिति स्वर्गे परलोके च। अन्तरिति मध्ये। प्रातरिति प्रत्यृषे। पुनरित्यपर्थमे विशेषे च। सनुतरित्यन्तर्धाने।स्वराद्याः पञ्चः रेफान्ताः। तेन स्वर्याति प्रातरत्रेत्यादावुत्वं न भवति। सान्तत्वे हि स्यादेव हि स्यादे दोषः। उच्चैस्– महतिः। नीचैस्—अल्पे। शनैस्–क्रियामान्द्ये। ऋधक्–सत्येऽपि। वियोगशीध्रसामीप्यलाघवेष्वित्यन्ये। ऋते–वर्जने। युगपदित्येककाले। आराद्?दूरसमीपयोः। पृथक्–भिन्ने। ह्रस्य–अतीतेऽह्नि। \उfffदास्–अनागतेऽह्नि। दिवा दिवसे। रात्राविति निशि :सायमिति निशामिखे। चिरमिति बहुकाले। मनाक्, ईषत्– इमावल्पे। जोषं–सुखे मौने।तूष्णीमिति मौने। बहिस् अवस् इमौ बाह्रे। समयेति समीपे मध्ये च। निकषेत्यन्तिके। स्वयमिति आत्मनेत्यर्थे। वृथेति व्यर्थे। नक्तमिति रात्रौ। नञिति निषेधे। हेताविति निमित्ते। इद्धेति प्रकाश्ये। अद्धेति स्फुटावधारणयोः। तत्त्वातिशयोरित्यन्ये। सामीत्यर्धजुगुप्सितयोः। वत्। `तेन तुल्य' मित्यादिभिर्विहतो यो वतिप्रत्ययः स इह गृह्रते। तदाह–ब्राआहृआणवत्। क्षत्रियवदिति। प्रत्ययमात्रस्य संज्ञाप्रयोजनाऽभावाप्रत्ययान्तमुदाह्मतम्। यस्तु'उपसर्गाच्छन्दसि धात्वर्थे' इति विहितः, स इह न गृह्रते। यदुद्वतो निवतो यासी`त्यत्र सत्त्वधर्मस्य लिङ्गसङ्ख्यान्वयस्य दर्शनात्। अत्र वदन्ति– `तद्धितश्चासर्वविभक्ति'रित्यत्र `तसिवती'इति वतिप्रत्ययोऽपि परिगण्यते, तच्च न कर्तव्यं, स्वरादिपाठेनैव गतार्थत्वात्। स्वरादिषु वा वदिति न पठनीयमितिष सना, सनत्, सनात्,–एते नित्ये। उपधेति भेदे। तिरस्–अन्तर्धौ तिर्यगर्थे परिभावे च। अन्तरेति मध्ये विनार्थे च। अन्तरेणेति वर्जने। ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्रार्थे संप्रत्यर्थे च। कमिति वारिमूर्धनिन्दासुखेषु। शमिति सुखेष सहसेत्याकस्मिकाऽविमर्शयोः। विनेति वर्जने। नानेत्यनेकविनार्थयोः। स्वस्तीति मङ्गले। स्वधा पितृदाने। अलं–भूषणपर्याप्तिशक्तिवारणनिषेधेषु। वषट्, श्रौषट्, वौषट्,–एते हविर्दाने। अन्यदित्यन्यार्थे। अस्तीति सत्तायाम्। उपांशु– इत्यप्रकाशोच्चारणरहस्ययोः। क्षणेति क्षान्तौ। बिहायसेतचि वियदर्थे। दोषेति रात्रौष मृषा, मिथ्येत्येतौ वितथे। मुधेति व्यर्थे। इत ऊध्र्वं `क्त्वातोसुन्कसुनः'`कृन्मकारसन्ध्यक्षरान्तः' `अव्ययीभावश्च'इति गणसूत्रत्रयमष्टाध्यायीस्थत्रिसूत्र्या समानार्थकमिह न पठितं चेदपि प्राचीनगणपाठे तदस्तीति बोध्यम्। वैयथ्र्यं तु परिहरिष्यते। पुरेत्यविरते चिरातीते भविष्यदासन्ने च। मिथो, मिथस्–एतौ रहः सहार्थयोःष प्रायसिति बाहुल्ये। मुहुसिति पुनरर्थे। प्रबाहुकमिति समानकाले ऊध्र्वार्थे च। प्रवाहिकेति पाठान्तरम्। आर्यहलमिति बलात्कारे। शाकटायनस्तु–आर्येति प्रतिबन्धे। हलमिति प्रतिषेधविवादयोरित्याह। अभीक्ष्णमिति पौनः पुन्ये। साकं, सार्धमेतौ साहार्थे। नमस्–नतौ। हिरुग्वर्जने। धिक्–निन्दाभत्र्सनयोः। इत उध्र्वं `तसिलादयस्तद्धिता एधाच्पर्यन्ताः'`शस्तसी'`कृत्वसुच्'`सुच्'`आस्थालौ'`च्व्यर्थाश्चे'ति प्राचीनगणपाठेऽस्तीति बोध्यम्। तसिलादीत्यादेरयमर्थः,–`पञ्चम्यास्त सिः'`तेनैकदिक्'`तसिश्चे'त्ययमपि तसिः। `क्रियाभ्यावृत्तिगणने कृत्वसुच्'। `द्वित्रिचतुभ्र्यः सुच्'। `इण आसिः'इत्युणादिसूत्रेण विहित `आसिः'। `प्रत्नपूर्ववि\उfffदोमात्थल्छन्दसि'। `संपद्यकर्तरि च्विः'। `विभाषा साति कार्त्स्न्ये'`देये त्रा च'इत्येतदन्ता अपि ग्राह्रा इति। अम्–शैध्येऽल्पे च। आम्–अङ्गीकारे। `अमु च छन्दसि'`किमेत्तिङव्यय–'इति `कास्प्रत्ययात्– 'इत्यादिभिश्च विहितावपि अमामौ गृह्रते इत्येके। प्रतं नय प्रतरं। ययाचतरां। कारयामास। प्रताम्—ग्लानौ। प्रशान्–समानार्थे। प्रतान्–विस्तारे। मा, माङ् एतौ निषेधाशङ्कयोः। आकृतिगण इति। तेनान्येऽपि ज्ञेयाः। तथा हि–कामम्–स्वाच्छन्द्ये। प्रकाममित्यतिशये। भूय इति पुनरर्थे। साम्प्रतमिति न्याय्ये। परमिति किन्त्वर्थे। साक्षात्–प्रत्यक्षे। साचीति तिर्यगर्थे। सत्यमित्यर्धाङ्गीकारे। मङ्क्षु, आशु– एतौ शैध्ये। संबत् वर्षे। अवश्यं निश्चये। उषेति रात्रौ। ओमित्यङ्गीकारे ब्राहृणि च। भूरिति पृथिव्याम्। भुवरित्यन्तरिक्षे। झटिति, झगिति, तरसा–एते शैन्ध्ये। सुष्ठु प्रशंसायाम्। दुष्ठु निकृष्टे। सु पूजायाम्। कु इति कुत्सितेषदर्थयोः। अञ्जसेति तत्त्वशीघ्रार्थयोः। मिथु इति द्वावित्यर्थे। अस्तमिति विनाशे। स्थाने इति युक्ते। वरमिति ईषदुत्कर्षे। सुदि शुक्लपक्षे। वदि कृष्णपक्षे इत्यादि। चादीनुदाहरति–चेत्यादिना। चेति समुच्चयान्वाचयेतरेतयोगसमाहारेषु। `वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये'। हेति प्रसिद्धौ। अहेति पूजायाम्। एवेत्यवधारणेऽनवक्लृप्तौ च। एवमित्युक्तपरामर्शे। नूनमिति निश्चये तर्के च। श\उfffदादति पौनः पुन्ये सहार्थे च। युगपदित्येककाले। भूयसे–पुनरर्थे आधिक्ये च। कूपदिति प्रश्ने प्रशंसायां च। कुविदिति भूर्यर्थे प्रशंसायां च। नेदिति शङ्कायां प्रतिषेधविचारसमुच्चयेषु च। चेदिति यद्यर्थे। चण्–अयं चेदर्थे। णानुबन्धस्तु `निपातैर्यद्यदिहन्तकुविच्चेच्चण्–'इति विसेषणार्थः। समुच्चयादौ त्वननुबन्धकः। कच्चिदितीष्टप्रश्ने। यत्रेति अनवक्लृप्त्यमर्षगर्हाश्चर्येषु।`नावकल्पयामि न मर्षये, गर्हा आश्चर्यं वा यत्र भवान् वृषलं याजयेत्'। नहेति प्रत्यारम्भे। हन्तेति हर्षे विषादेऽनुकम्पायां वाक्यारम्भे च। माकिः, माकिं, नकिरिति त्रयोऽपि वर्जने। माङ्नञौ स्वरादिषूक्तौ। इह पाठस्तु निपातत्वार्थः, तेनाद्युदात्तत्वं फलं सिध्यतीति केचित्। तदसत्। फिट्स्वरेणाऽपीष्टसिद्धेः। अन्ये त्वाहुः– सत्त्ववचनानामप्यव्ययसंज्ञार्थं स्वरादिपाठ इति। तदप्यसत्। लक्ष्मीवाचकस्यापि माशब्दस्याऽव्ययत्वापत्तेः। तस्मादुभयत्र पाठश्चिन्त्यप्रयोजनः। यावत्तावदेतौ साकल्याऽवधिमानावधारणेषु। साकल्ये–यावत्कार्यं तावत्कृतम्। अवधौ–यावद्गन्तव्यं तावत्तिष्ठ। माने—यावद्दत्तं तावद्भुक्तम्। अवधारणे–यावदमत्रं तावद्ब्राआहृणानामन्त्रयस्व। त्वै–विशेषवितर्कयोः। द्वै–वितर्के। न्वै–इति। पाठान्तरम्। रै दाने अनादरे च। रै करोति। ददातीत्यर्थः। त्वं रै किं करिष्यसि। श्रौषट्, वोषट्–एतौ हविर्दाने। स्वाहा देवताभ्यो दाने। स्वधेति पितृभ्यः। श्रौषडादीनामनेकाचामुभयत्र पाठः स्वरभेदार्थः। तुमिति तुङ्कारे। `गुरु तुङ्कृत्य हुङ्कृत्य'। तथाहीति निदर्शने। खलु इति निषेधवाक्यालङ्कारनिश्चयेषु। किलेति वार्तायामलीके च। अथो अथेति मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारप्रतिज्ञासमुच्चयेषु। अयं स्वरादावपि। तेन मङ्गलवाचकस्य सत्त्वार्थत्वेऽप्यव्ययत्वं सिध्यति। अतएव श्रीहर्षः–उदस्य कुम्भरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरि। यथाकुलाचारमथाऽवनीन्द्रजां पुरन्ध्रविर्गः स्नपयाम्बभूव ताम्'इति। अत्र हि `अथ स्नपयांबभूवे'त्यस्य मङ्गलस्नपनं चकारेत्यर्थः। निपातस्तु स्वरूपेणैवः मङ्गलं मृदङ्गध्वनिवत्। सुष्ठु– स्वरभेदार्थपाठः। स्मेत्यतीते पाजपूरणे च। आदहेत्युपक्रमहिंसाकुत्सनेषु। `आदह स्वधामन्नि'त्यत्र तु पदकारा `आ'दिति पृथक् पदं पठन्ति। अवदत्तमिति। इह अवस्यानुपसर्गत्वात् `अच उपसर्गात्तः'इति न भवति। अहमिति सुबन्तप्रतिरूपकमहङ्कारे। एवं `गेये केन विनीतौ वा'मिति। युवामित्यर्थः। सुबन्तप्रतिरूपकमव्ययम्। अस्तीति तु तिङन्तप्रतिरूपकम्। एवं `त्वामस्मि वाच्मी'त्यत्राऽस्मीत्यहमर्थे तिङन्तप्रतिरूपकम्। आहेत्युवाचेत्यर्थे। आसेति बभूवएत्यर्थे। —इत्यादि बोध्यम्। अहंयुरिति। `अहंशुभमोर्युस्'। यदि तु `त्वाहौ सौ'इति मपर्यन्तस्याऽहादेशे शेषलोपे च कृते निष्पन्नो योऽहंशब्दस्तस्माद्यस्प्रत्ययः क्रियते तर्हि सुपो लुकि अस्मद्युसिति स्थिते मदीय इत्यत्रेव मपर्यन्तस्य मादेशे सति `मद्यु'रिति स्यादिति भावः। अस्तिक्षीरेति। तिङन्तत्वे तु बहुव्रीहिसमासो[ऽयं]नोपपद्यत इत् भावः। अ इति संबोधनेऽधिक्षेपे निषेधे च। आ इति वाक्यस्मरणयोः। `इ'संबोधनजुगुप्साविस्मयेषु। ई उ ऊ ए ऐ ओ औ संबोधने। पशु सम्यगर्थे। `पशु मन्यमानाः'। शुकं—शैध्ये। यथाकथाचेत्यानादरे। पाट्प्रभृतयः सप्त संबोधने। द्येति हिंसाप्रतिलोभ्यपादपुरणेषु। विषु–नानार्थे। एकपदे—इत्यकस्मादित्यर्थे। युत्–कुत्सायाम्। आत इति— इतोऽपीत्यर्थे। आकृतिगण इति। तद्यथा–यत्तदिति हेतौ। आहोस्विद्विकल्पे। सीम— सर्वतोभावे। शुकम्–अतिशये। अनुकं वितर्के। शम्बट्–अन्तःकरणे आभिमुख्ये च। व पादपूरणे इवार्थे च। दिष्ट\उfffदेत्यानन्दे। चटु चाटु प्रियवाक्ये। हुमिति भत्र्सने। इवेति सादृश्ये। अद्यत्वे इति इदानीमित्यर्थे इत्यादि। अत्र स्वरादिचाद्योराकृतिगणत्वाऽविशेषेऽपि येषां निपातस्वर इष्टस्ते चादिषु, अन्ये तु स्वरादिषु, स्वरद्वयभाजस्तूङयत्रबोध्यः।

Satishji's सूत्र-सूचिः

268) स्वरादिनिपातमव्ययम् 1-1-37

वृत्तिः स्‍वरादयो निपाताश्‍चाव्‍ययसंज्ञाः स्‍युः । The class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

The following are listed under the स्वरादि-गणः in the गण-पाठः। (The important ones are followed by an asterisk. For meanings, please refer to Apte’s dictionary.)
सवर्*, अन्तर्*, प्रातर्*, पुनर्*, सनुतर्, उच्चैस्*, नीचैस्*, शनैस्*, ऋधक्, ऋते*, युगपत्*, आरात्*, पृथक्*, ह्यस्*, श्वस्*, दिवा*, रात्रौ, सायम्*, चिरम्*, मनाक्*, ईषत्*, जोषम्*, तूष्णीम्*, बहिस्*, अवस्, अधस्*, समया*, निकषा*, स्वयम्*, वृथा*, नक्तम्*, नञ्*, न*, हेतौ, इद्धा, अद्धा, सामि*, वत्*, सना, सनत्, सनात्, उपधा, तिरस्*, अन्तरा*, अन्तरेण*, ज्योक्, कम्, शम्*, सहसा*, विना*, नाना*, स्वस्ति*, स्वधा, अलम्*, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा*, मिथ्या*, मुधा, पुरा*, मिथो,
मिथस्*, प्रायस्*, मुहुस्*, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्षणम्*, साकम्*, सार्धम्*, नमस्*, हिरुक्, धिक्*, अथ*, अम्, आम्, प्रताम्, प्रशान्, मा*, माङ्*

The list of words enumerated in the स्वरादि-गणः is not exhaustive. The गण: is what is called as an “आकृति-गण:” – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. Other such words that are accepted in usage (शिष्ट-प्रयोगः) and grammatically behave like an अव्ययम् can be enlisted in the स्वरादि-गणः। Some important words that are counted in this आकृतिगणः are as follows:
समम्*, सत्रा*, झटिति*, तरसा*, द्राक्*, अञ्जसा*, मङ्क्षु, सपदि*, भूयस्*, कामम्*, संवत्*, बदि*, शुदि*, साक्षात्*, साचि, अजस्रम्*, अनिशम्*, वरम्*, स्थाने*, कृतम्*, प्रादुस्*, आविस्*, प्रकामम्*, उषा, ओम्*, अवश्यम्*, सम्प्रति*, साम्प्रतम्*, सुष्ठु*, दुष्ठु*, मिथु/मिथुर्, असाम्प्रतम्*, कु*, सु*, चिरेण*, चिराय*, चिररात्राय, चिरात्*, चिरस्य, चिरे।

By 1-1-37, a निपात: gets अव्यय-सञ्ज्ञा। निपाता: are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः which goes up to 1-4-97 अधिरीश्वरे।
1-4-57 चादयोऽसत्त्वे and 1-4-58 प्रादयः list the class of terms चादयः and प्रादय:। These will get the निपात-सञ्ज्ञा by 1-4-56.

The following come under चादि-गणः
च*, वा*, ह, अह, एव*, एवम्*, नूनम्*, शश्वत्*, युगपत्*, भूयस्*, कूपत्, सूपत्, कुवित्, नेत्, चेत्*, चण्, यत्र*, कच्चित्*, नह, हन्त*, माकिर्, माकीम्, नकिर्, नकीम्, माङ्*, नञ्, यावत्*, तावत्*, त्वै, न्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, वषट्, तुम्, तथाहि*, खलु*, किल*, अथो, अथ*, सुष्ठु*, स्म*, आदह।
उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च। (गण-सूत्रम्) Words which mimic a उपसर्ग: or a word ending in a विभक्ति: or a vowel, are also included in this class. Examples are as follows:
अवदत्तम्, अहंयुः, अस्तिक्षीरा, अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ।

The remaining part of the चादि-गणः is as follows:
पशु, शुकम्, यथाकथाच, पाट, प्याट्, अङ्ग*, है, हे*, भोस्*, अये*, द्य, विषु, एकपदे*, युत्, आतस्।

The चादि-गणः is also an आकृति-गणः। The following can be included under चादि-गणः।
अयि*, रे*, अरे, अरेरे, भगोस्, अघोस्, हंहो, हा*, अहह, अहो*, सह*, जातु*, इत्, नो*, नोचेत्*, नहि*, उत*, किम्*, किमुत*, किमु*, किमिति*, किमिव*, किमपि*, प्रत्युत*, अकाण्डे*, चित्*, चन*, अमा, आहो*, उताहो*, स्वित्, आहोस्वित्*, अतीव*, बत*, अद्यापि*, प्रभृति*, तु*, ननु*, हि*, नाम*, इव*, इति*, दिष्ट्या*, नु*, यद्*, तद्*, यदपि, ते, मे, मम, वाम्, अस्तु, नास्ति, येन, तेन, अकस्मात्*, प्रसह्य*, अह्नाय, व, समन्तात्*, भवतु, बलवत्, तदपि, यस्मात्, तस्मात्, आः, ही, वै*, किञ्च*, यदि*, यद्यपि*, यद्वा*, यदि वा*, अथवा*, वारं
वारम्*, प्रेत्य, पुरतः*, प्रायेण*, प्रायशः*, वस्तुतः*, अथ किम्*, अन्वक्, अपि वा*, कस्मात्*, प्रगे, परश्वः, स्राक्, अरम्, रहः, उपजोषम्, अद्यत्वे, तदनु।