Table of Contents

<<1-4-96 —- 1-4-98>>

1-4-97 अधिरीश्वरे

प्रथमावृत्तिः

TBD.

काशिका

ईश्वरः स्वामी, स च स्वम् अपेक्षते। तदयम् स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

636 अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह–अधिरी\उfffदारे। ई\उfffदारशब्देन इ\उfffदारत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम्। `कर्मप्रवचनीयाः' इत्यधिकृतमेकवचनान्ततया विपरिणम्यते। तदाह–स्वस्वामीति।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.