Table of Contents

<<1-1-35 —- 1-1-37>>

1-1-36 अन्तरं बहिर्योगौपसंव्यानयोः

प्रथमावृत्तिः

TBD.

काशिका

अत्र अपि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते। अन्तरम् इत्येतच्छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने। अन्तरे गृहाः, अन्तराः गृहाः। नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते। उपस्ंव्यानेअन्तरे शाटकाः, अन्तराः शाटकाः। उपसंव्यानं परिधानीयम् उच्यते, न प्रावरणीयम्। बहिर्योगौपसंव्यानयोः इति किम्? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति। तस्मिन्नन्तरे शीतान्युदकानि। मध्यप्रदेशवचनो ऽन्तरशब्दः। गणसूत्रस्य चैदं प्रत्युदाहरणम्। अपुरि इति वक्तव्यम्। अन्तरायां पुरि वसति। विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञा इत्युपसंख्यानम्। द्वितीयस्मै, द्वितीयाय। तृतीयस्मै, तृतीयाय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

218 अन्तरम्। अत्रापि `सर्वनामानी'ति `विभाषा जसी'ति चानुवर्तते। बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत्। उपसंवीयते=परधीयते इति उपसंव्यानम्=अन्तरीयं वस्त्रम्। तदाह–बाह्रा इत्यादिना।

तत्त्वबोधिनी

183 अन्तरं बहिर्योगोपसंव्यानयोः। `बहि'रित्यनावृतो देशो, बाह्रं चोच्यते। तत्राद्यमर्थं गृहीत्वाह–बाह्रा इत्यर्थ इति। द्वितीये त्वाभ्यन्तरा इत्यर्थो बोध्यः। बाह्रेन ह्रभ्यन्तरस्य योगोऽस्ति। अर्थद्वयमप्याकरे स्थितम्। इदमेवार्थद्वयं मनसि निधाय `अन्तरायां पुरी'त्यत्र प्राकाराद्बाह्रायां तदन्तर्वर्तिन्यां वेति व्याख्यातम्। `उपसंव्यान' शब्दोऽपि करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्यात्वन्तरीयपरः।

Satishji's सूत्र-सूचिः

TBD.