Table of Contents

<<1-4-55 —- 1-4-57>>

1-4-56 प्राग्रीश्वरान् निपाताः

प्रथमावृत्तिः

TBD.

काशिका

अधिरीश्वरे 1-4-97 इति वक्ष्यति। प्रागेतस्मादवधेर्यानित ऊर्ध्वम् अनुक्रमिष्यामः, निपातसंज्ञास्ते वेदितव्याः। वक्ष्यति चादयो ऽसत्त्वे 1-4-57, च, वा, ह, अह। प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीय. संज्ञाभिः सह निपातसंज्ञा समाविशति। रेफोच्चारणम् इश्वरे तोसुन्कसुनौ 3-4-13 इत्ययम् अवधिर्मा विज्ञायि इति। रीश्वराद्वीश्वरान् मा भूत् कृन्मेजन्तः परो ऽपि सः। समासेष्वव्ययीभावो लौकिकम् च अतिवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

सिद्धान्तकौमुदी

<< 1-3-11-4-57 >>
१९ इत्यधिकृत्य ॥

बालमनोरमा

21

प्रथमस्य चतुर्थपादे `तत्प्रयोजको हेतुश्चे'त्यनन्तकमिदं सूत्रम्। `री\उfffदार'शब्दः `अधिरी\उfffदारे' इति सूत्रैकदेशस्य अनुकरणम्। अनुकरणत्वान्नापशब्दः। अत एव `प्रत्यक्षोपजीव्यत्वा'दिति चिन्तामणिवाक्यस्य `प्रत्यक्षविती'ति प्रतीकग्रहणं तद्व्याख्याने दृश्यते। `इतः प्रभृति अधिरी\उfffदार इति एतत्पादीयोपरितनसूत्रे री\उfffदारशब्दात् प्राक्निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः। निपातपदमनुवर्तत इति यावत्। रेफविशिष्टग्रहणं किम् ?। `ई\उfffदारे तोसुन्कसुनौ' इति तृतीयाध्यायस्थस्यावधित्वं मा भूत्। यदि तु प्रथमातिक्रमणे कारणाभावादधिरी\उfffदार इत्यस्यैवावधित्वं तदा सरेफग्रहणं स्पष्टार्थम्।

तत्त्वबोधिनी

20 प्राग्री\उfffदारात्। रेफविशिष्टग्रहणं किम् ?,`ई\उfffदारे तोसुन्कसुनौ' इत्यस्य व्याप्तिन्यायेनावधित्वं मा भूत्। यदि तु प्रत्यासत्त्यैव `अधिरी\उfffदारे' इत्यस्यावधित्वसिद्धिरित्युच्यते तर्हि स्पष्टप्रतिपत्त्यर्थमेवास्तु।

Satishji's सूत्र-सूचिः

TBD.