Table of Contents

<<8-2-69 —- 8-2-71>>

8-2-70 अम्नरूधरवरित्युभयथा छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

अम्नसूधसवसित्येतेषां छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा। अम्नस् अम्न एव, अम्नरेव। ऊधस् ऊध एव, ऊधरेव। अवस् अवः एव, अवेरेव। यदा रुत्वं तदा भोभगो ऽघो ऽपूर्वस्य यो ऽशि 8-3-17 इति यकारः। छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम्। प्रचेता राजन्, प्रचेतो राजन्। अहरादीनां पत्यादिषु उपसङ्ख्यानं कर्तव्यम्। अहर्पतिः, अहः पतिः। गीर्पतिः, गीःपतिः। धूर्पतिः, धूःपतिः। विसर्जनीयबाधनार्थम् अत्र पक्षे रेफस्य एव रेफो विधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.