Table of Contents

<<7-4-62 —- 7-4-64>>

7-4-63 न कवतेर् यङि

प्रथमावृत्तिः

TBD.

काशिका

कवतेः अभ्यासस्य यङि परतः चुः न भवति। कोकूयते उष्ट्रः। कोकूयते स्वरः। कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः। तयोः चुत्वम् एव भवति। चोकूयते। यङि इति किम्? चुकुवे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

404 न कवतेर्यङि। इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कूङ् शब्द इति भ्वादिरेव गृह्रते न तु कु शब्द इत्यदादिः, कूङ् शब्द इति तुदादिश्चेत्याशयेनाह- - कौतिकुवत्योस्त्विति। ननु `को'रित्युक्तेऽपि कूङः प्रसङ्गो नास्ति, दीर्घान्तत्वात्, लुग्विकरणपरिभाषया च कौतेरपि प्रसङ्गो नास्तीति चेत्। अत्राहुः- - `को'रित्युक्ते तु निनुबन्धपरिभाषाया अपि जागरूकत्वादुभयोग्र्रहणं स्यादिति कौतिव्यावृत्त्यर्थं शपा निर्देश कर्तव्यः। कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति। `कुङ' इत्येवाऽत्र सुवचम्।

Satishji's सूत्र-सूचिः

TBD.