Table of Contents

<<7-3-114 —- 7-3-116>>

7-3-115 विभाषा द्वितीयातृतीयाभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

द्वितीया तृतिया इत्येताभ्याम् उत्तरस्य ङितः प्रत्ययस्य विभाषा स्याटागमो भवति, द्वितीयातृतियायोश्च ह्रस्वो भवति। द्वितीयस्यै, द्वितियायै। तृतीयस्यै, तृतीयायै।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

291 विभाषा। `घेर्ङिती'त्यतो ङितीत्युनुवृत्तं षष्ठ\उfffदा विपरिणम्यते। `याडापः' इत्यत आप इति, `सर्वनाम्नः स्याट्' इत्यतः `स्या'ङिति, `ह्यस्व' इति चानुवर्तते। तदाह–आभ्यामित्यादिना। इदमिति। `विभाषा द्वितीयातृतीयाभ्या'मिति सूत्रं न कर्तव्यमित्यर्थः। कुत इत्यत आह–तीयस्येति। विभाषाप्रकरणे तीयप्रत्ययान्तस्य ङित्सु सर्वनामत्वोपसङ्ख्यानादित्यर्थः। नच तीयस्य ङित्सूपसङ्ख्यानमेव त्यज्यतामिति वाच्यं, पुंनपुंसकार्थं तस्यावश्यकत्वात्। अम्बार्थेति। व्याख्यातमिदं पुंसीदन्ताधिकारे। तत्र नदीविषये उदाह्यतम्, अम्बार्थानुदाहरति-हे अम्बेत्यादि। शेषं रमावत्। अत्र भाष्ये `डलकवतीनां प्रतिषेधो वक्तव्यः। हे अम्बाडे। हे अम्बाले। हे अम्बिके। तदिदं वार्तिकं न कर्तव्यमित्युक्त्वा `द्व्यच्कस्यैवाम्बार्थस्य ह्यस्व' इति स्थितम्। यथाश्रुतवार्तिके तु हे अल्लेत्यत्राऽव्याप्तिः स्यादिति तदाशयः। द्व्यच्कानामम्बार्थानां ह्यस्व इत्यस्याङ्गत्वात्तदन्तविधिः। अतो जगदम्बेत्यत्र द्व्यच्काम्बान्तत्वाद्भवति ह्यस्वः। जरेति। `जृ?ष् वयोहानौ'। `षिद्भिदादिभ्यः' इत्यङ। `ऋदृशोऽङी'ति गुणः, रपरत्वम्। अदन्तत्वाट्टाप्, सुः, हल्ङ्यादिना सुलोप इति भावः। जरसाविति। जराया जरसन्यतरस्या'मिति अजादौ जरसादेश इति भावः। ननु शीभावे कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य तस्य सन्निपातपरिभाषया आबन्तत्वविधातकजरसादेशनिमित्तत्वाऽसम्भवेन जरसादेशाऽभावे आद्गुणे `जरे' इत्येव स्यादित्यत आह–शोभावादिति। जरसि कृते तु आबभावान्न शीभाव इति भावः। जरसः। जरसं जरसौ जरसः। टा-जरसा। न चात्र जरा आ इति स्थिते जरसादेशं बाधित्वा परत्वात् `आङि चापः' इत्येत्त्वेऽयादेशे जरयेत्येव युक्तमिति वाच्यम्, एकदेशविकृतन्यायेन कृतेऽप्येत्येव प्रवृत्तस्य जरसादेशस्य नित्यतया तस्याव प्रवृत्तेः, परान्नित्यस्य बलवत्त्वात्, आपः परस्य ङितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात्। ङसिङसोः-जरसाः। अत्रापि पूर्ववद्याट् न। जरसोः। एत्त्वं बाधित्वा नित्यत्वाज्जरम्। आमि-जरसाम्। नन्वामि नुटि कृत#ए अजादिविभक्त्यभावात्कथं जरसादेश इत्यत आह–आमि नुट इति। ङौ जरसि। परमपि ङे रामं याटं च नित्य्त्वादन्तरङ्गत्वाच्च क्रमेण बाधित्वा जरस्। पक्षे हलादौ च रमावदिति। जरसादेशाऽभावपक्षे हलादावपि रमावदित्यर्थः।

शीभावमाश्रित्य जरसी इति केचिदाहुरित्यन्वयः। आश्रित्येत्यनन्तरं-`जरसादेशे कृते' इति शेषः। ननु शीभावं बाधित्वा परत्वाज्जरसादेश एव युक्त इत्यत आह– पूर्वविप्रतिषेधेनेति। `विप्रतिषेधे पर'मित्यत्र परशब्दस्येष्टवाचितामाश्रित्य क्वचित्पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थः। नन्वाबन्तसंनिपातमुपजीव्य प्रवृत्तस्य शीभावस्य संनिपातपरिभाषया आबन्तसंनिपातविघातकजरसादेशनिमित्तत्वं न सम्भवतीत्यत आह–संनिपातपरिभाषाया अनित्यतां चेति। तन्निर्मूलमिति। पूर्वविप्रतिषेधाश्रयणस्य भाष्यापरिगणितेष्वप्रवृत्तेः संनिपातपरिभाषायाः सर्वत्रानित्यत्वाश्रयणे प्रमाणाऽभावाच्चेति भावः। जरसामित्यत्र `औङ आपः' `ह्यस्वनद्यापो नु' डित्यपेक्षया परत्वादस्तु जरसादेशः। अस्तु च ङेङसिङस्सु जरसे जरस इत्यत्र याटमन्तरङ्गत्वात् बाधित्वा जरसादेशः, अस्तु च ङौ जरसीत्यत्र नित्यत्वादाममन्तरङ्गत्वाद्याटं च बाधित्वा जरसादेशः। तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमाः कुतो न स्युः। किञ्चाऽनेनैव न्यायेन नासिकाशब्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाड्नुडागमान् बाधित्वा जरसादेशः। तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमा प्रसज्येरन्निति शङ्कते–यद्यपीत्यादिना। परिहरति–तथापीति। स्थानीभूताबन्ताश्रयविधय एते एत्त्वादिविधयः, अतस्तेषु कर्तव्येषु जरसाद्यादेशानां स्थानिवत्त्वं न सम्भवति, अनल्विधाविति तन्निषेधात्। ततश्च जरसाद्यादेशानामाबन्तत्वाऽलाभादेत्त्वादिविधियो न भवन्तीत्यर्थः। नन्वल्त्वव्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिः, नतु यथाकथञ्चिदलाश्रयविधिरपि, रामायेत्यत्र `सुपि चे'ति दीर्घाऽभावप्रसङ्गात्। तत्र हि दीर्घो यञादिसुपि परतो विधीयते। यादेशस्य च सुप्त्वं स्थानिवत्त्वलभ्यम्। यादेशस्य च एकारोऽल् स्थानी। ततश्च दीर्घस्य स्वनिमित्तभूतसुप्त्वांशे तदाश्रयत्वादनल्विधाविति निषेधाद्दीर्घे कर्तव्ये यादेशस्य स्थानिवत्त्वाऽभावेन सुप्त्वाऽभावत्तस्मिन् परतो दीर्घो न स्यात्। अल्त्वब्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिरित्याश्रयणे तु न दोषः। दीर्घो हि यादेशस्थानिभूतमेकारमेकारत्वेन नाश्रयति। किंतु सुप्त्वेनैव। सुप्त्वं चाल्त्वव्याप्यं न भवति, भ्यामादावपि सत्त्वात्। ततश्च दीर्घस्यानल्विधात्वात्तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसंभवाद्दीर्घो निर्बाधः। प्रकृते च एत्त्वादिविधयो जरसादेशस्थानीभूताबन्तत्वपुरस्कारेण संभवत्प्रवृत्तिकाः। आप्त्वं च समुदास्य धर्मः, नत्वाकारमात्रस्या। ततश्च एत्त्वादिविधीनामनल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वेनाबन्तत्वं दुर्वारमित्याशङ्क्याह–आ आबित्यादिना। `आङि चापः' इत्यादिषु सवर्णदीर्घेण आ आबिति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्त्वादयो विधीयन्ते। ततश्च ते आकारत्वरूपेणाप्यापमाश्रयन्तीति तेषामल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्वं न संभवति। ततश्च एत्त्वादिविधयोऽत्र न भवन्तीत्यर्थः। प्रसङ्गादाह–एवमिति। यथा `आङि चापः' इत्यादिषु आ-आबिति प्रश्लेषः, एवं `हल्ङ्याब्भ्यां' इत्यत्र ङी ई, आ आबिति सवर्णदीर्घेण प्रश्लेषाद्दीर्घग्रहणं प्रत्याख्येयमित्यन्वयः। ननु तत्र दीर्घग्रहणाऽभावे–`अतिखट्वः' `निष्कौशाम्बि'रित्यत्रापि सुलोपः स्यात्। तथाहि खट्वाशब्दष्टाबन्तः खट्वामतिक्रान्तोऽतिखट्वः। `अत्यादयः क्रान्ताद्यर्थे ' इति समासः। कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी। `तेन निर्वृत्त मित्यण्। `टिड्ढाण'ञिति ङीप्। निष्क्रान्तः कौशाम्ब्याः-निष्कौशाम्बिः। `निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः। उभयत्रापि `गोस्त्रियो'रिति आपो ङीपश्च ह्यस्वः, ततः सुबुत्पत्तिरिति स्थितिः। अत्र स्थानिवत्त्वेनाऽऽकाररूपाबन्तत्वस्य ईकाररूपव्यन्तत्वस्य चानपायात्सोर्हल्ङ्यादिलोपे प्राप्ते तन्निवृत्त्यर्थं दीर्घग्रहणमावश्यकमेवेत्यत आह–अतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेरिति। अयमाशयः- ङी ई, आ आबिति प्रश्लेषे सति आत्वरूपेण ईत्वरूपेण च ङ्यापावाश्रित्य सुलोपप्रवृत्तिर्वक्तव्या। ईत्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानवलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन ङ्याबन्तत्वमस्तीति न सुलोप इति। एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वाद्धल्ङ्यादिसूत्रे दीर्घग्रहणं न कर्तव्यमित्यन्यत्र विस्तरः। स्यादेतत्। `याडापः' इत्यत्र `आ-आ'बिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र याड् दुर्वारः। खट्वामतिक्रान्तोऽतिखट्वः। `अत्यादयः' इति समासे `गोस्त्रियो'रिति ह्यस्वत्वे रूपम्। ततो ङेर्यादेशे `सुपि चे'ति दीर्घे अतिखट्वायेति रूपम्। तत्र `याडापः' इति याट् स्यात्। दीर्घे सति स्थानिवत्त्वेनाऽऽकाररूपाप्त्वस्य सत्त्वात्। नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानयाड्विधेरल्विधित्वान्न दीर्घस्य स्थानिवत्त्वेनाऽऽकारत्वावच्छिन्नाप्त्वमिति वाच्यं, याड्विविधिर्हि आकाररूपाऽऽबाश्रयः। तत्र आकाररूपत्वं दीर्घस्य स्वत एव सिद्धमिति न तत्स्थानिवत्त्वलभ्यम्। किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम्। आप्त्वं च समुदायधर्म एव। नत्वल्त्वव्याप्यधर्मः। तेन रूपेण स्थान्यलाश्रयत्वेऽपि अल्विधित्वाऽभावाद्याड्विधौ स्थानिवत्त्वं दुर्वारमिति शङ्कामुद्भाव्यपरिहरति-न चेति। एवमपीति। `याडाप#ः' इत्यत्राऽऽकारप्रश्लेषे सत्यपीत्यर्थः। तत्स्वाश्रयम्। स्तवस्सिद्धमिति यावत्। एवमपीत्यारभ्य याट् स्यादित्यन्तः संदर्भः शङ्कापरः। इति च न वाच्यमित्यन्वयः। कुत इत्यत आह–आबन्तं यदङ्गमिति। `याडपः' इत्यत्र हि आब्ग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्तं गृह्रते। अङ्गस्येति तद्विशेषणं भवति। ततश्चाबन्तादङ्गात्परस्य ङितो याड्विधीयते। यस्माच्छब्दाद्यः प्रत्ययो विहितस्तादृशप्रकृतिभूतशब्दरूपाद्यवयवकस्य तत्प्रत्ययरूपान्तावयवकस्य समुदायस्य ग्रहणमिति परभाषार्थः। प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थः। प्रकृते चातिखट्वायेत्यत्र खट्वशब्दाददन्ताट्टाब्विधानात्खट्वेत्येव टाबन्तम्। तत्तु ङितं विभकिं?त प्रति नाङ्गम्, अतिखट्वशब्दादेव ङितो विधानात्। यत्त्वमङ्गनतिखट्वेति, न तट्टाबन्तमतः स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भावः। ननु `ष्यङः सम्प्रसारण'मित्यत्र भाष्ये `स्त्रीप्रत्यये चानुपसर्जने ने'त्युपसर्जनादन्यत्रैव तदादिनियमनिषेधस्योक्ततया तदन्ते गृहीते तेनाङ्गस्य विशेषणादाबन्तान्तं यदङ्गमित्यर्थादतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम्, अङ्गस्य विशेषणत्वाश्रयणात्। अत एव `ङ्याब्ग्रहणे अदीर्घ आदेशो न स्थानिव'दिति वार्तिककारमतं ह्यस्वे फलाऽभावेन स्थानिवद्भावाऽप्रसक्त्या कथं तत्स्थानिके दीर्घे तल्लाभ इति भाष्यकारेण दूषितम्। अथ नासिकाशब्दे विशेषमाह–पद्दन्निति। शसि-नसः। टा-नसा। नोभ्यामित्यादीति। नस्–भ्यामित्यत्र `स्वादिषु' इति पदत्वे `ससजुषो रुः' इति रुत्वे `हशि चे'त्युत्वे गुणे नोभ्यां नोभिरित्यादि रूपमित्यर्थः। नस्सु। पक्षे इति। शसादौ नशादेशाऽभावपक्षे इत्यर्थः। अथ निशाशब्दे विशेषं दर्शयति-निशाया निशिति। `शसादौ `पद्दन्नो' इत्यनेने'ति शेषः। निश्-भ्यामिति स्थिते।

तत्त्वबोधिनी

253 त्यक्तुं शक्यमिति। न चाबन्तस्य द्वितीयादिशब्दस्य तीयप्रत्ययान्तत्वाऽभावाद्विभाषा द्वितीयेति सूत्रमावश्यकमिति शङ्क्यम्, एकादेशस्य पूर्वान्तस्य द्वितीयादिशब्दस्य तीयप्रत्ययान्तात्वाऽभावाद्विभाषा द्वितीयेति सूत्रमावश्यकमिति शङ्क्यम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणादाबन्तस्यापि तीयप्रत्ययान्तत्वात्। तीयस्येति। पुनंपुंसकार्थमवश्यं वक्तव्येनाऽनेनैव सिद्धौ `विभाषाद्वितीये'ति सूत्रं न कर्तव्यमिति भावः। अत्र `अम्बार्थं द्व्यक्षरं यदी'तचि वचनात् द्व्यच्कस्यैवाऽम्बार्थस्य ह्यस्वो भवति नान्येषामित्याशयेन फलितमाह–\र्\नसंयुक्ता ये डलकास्तद्वतां ह्यस्वो न।- असंयुक्ता ये डलका इत्यादि। जरेति। `जृ?ष् वयोहाना'वित्यास्मात्षिद्भिदादिभ्य इत्यादि `ऋद्दशोऽङी'ति गुणे कृते टाप्। शीभावात्परत्वाज्जरसित्यादि। नु `औङ् आपः' `ह्यस्वनद्यापो नु'डित्यापेक्ष्या `जराया'इति सूत्रस्य परत्वादस्त्वेवं, परन्तु `आहि चापः'`याडापः'`ङेरा'मिति विधयो जरसादेशं बाधित्वा परत्वात्स्युरिति चेदत्राहुः,–`आहि चापः'इत्येकारादेशे कृतेऽप्येकदेशविकृतन्यायेन `जरायाः'इति जरसादेशप्रसक्त्या नित्यत्वादेकारादेशं बाधित्वा जरसादेश एव भवति। न चैकारादेशोऽपि नित्यएव, जरसादेशे कृतेऽपि स्थानिवत्त्वेनाबन्तत्वादङि चाप इति पर्वृत्तिरिति वाच्यम्, `आकारारूपस्यैवापः सर्वत्र ग्रहणा 'दित्यनुपदमेव वक्ष्यमाणत्वात्तदप्रवृत्तेः। `याडपः'इति याडगमं तु जरसादेशोऽन्तरङ्गत्वाब्दाधते। आकाररूपादापः परस्य ङितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात्। ङेराममपि जरसादेशो नित्यत्वाब्दाधते। न चाकाररूपाबन्तात्परस्य ङेरामि कृते संनिपातपरिभाषया जरसादेशस्याऽप्रवृत्तेर्न तस्य नित्यतेति वाच्यम्, रूपमालायां `जरसी'इत्युक्तत्वादिष्टानुरोधेनोक्तपरिभाषाया अनित्यत्वाभ्युपगमे बाधकाऽभावादिति। स्वाश्रयमिति। यञादिसुबाश्रयं। तन्निमित्तकमित्यर्थः। यञादिसुप एव याडादमापादनात्स्वशब्देन तत्परामृश्यते। स्थानिवद्भानेवेति। न चैवं लक्षणिकत्वात्कथमिह याट् ल स्यादिति वाच्यम्, अतिदेशविषये लक्षणप्रतिपदोक्तपरिभाषायाः प्रवृत्तावतिदेशस्य वैयथ्र्यापत्तेः। अतो व्याचष्टे आबन्तं यदङ्गमिति। `यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य ग्रहण'मिति नियमादतिखट्वेति यदङ्गं तदाबन्तं न भवति, यच्चाबन्तं `खट्वे'ति, तदङ्गं न भवतीति नात्र #आडादमप्रसक्तिरिति भावः। अत्र नव्याः–प्रत्ययग्रहणे तदन्तग्रहण'मित्याब्ग्रहणेनाबन्तं गृह्रते। अबन्तस्याङ्गविशेषणे त्वाबन्तान्तग्रहणदतिखट्वायेत्यत्रोक्तदोषतादवस्थमिति यद्युच्यते, तह्र्रङ्गेनाबन्तं विशेष्यताम्—`अङ्गसंज्ञकं यदाबन्त'मिति, तथै च नोक्तातिप्रसङ्गशङ्कालेश इत्याहुः। स्त्रीप्रत्यये तदादिनियमो नेत्याशङ्क्याह– उपसर्जमेति। अयं भावः–`स्त्रीप्रत्यये चानुपलर्जने ने'त्यनुपसर्जनस्त्रीप्रत्यये तदादिनियमप्रतिषेधो वक्ष्यते न तूपसर्जनेऽपि। अतएव परमकारीषगन्धपुत्रवदतिकारीषगन्ध्यपुत्र इत्यत्र `ष्यङः संप्रसारणं पुत्रपत्योस्तत्पुरुषे'इति संप्रसारणं न भवति। अतिकारीषगन्ध्यस्य हि ष्यहन्तत्वाऽभावात्। न च `बहुश्रेयसी'–त्यत्र `श्रेयसी'त्युत्तरभागस्य ङ्यन्तत्वाद्य था हल्ङ्यादिलोपः प्रवर्तते तथा तत्राप्युत्तरभागस्य ष्यङन्तत्वात्संप्रसारणं स्यादेवेति शङ्क्यं, पूर्वपदस्य ष्यङन्तस्य पुत्रपत्योरुत्तचरपदयोः संप्रसारणमिति `ष्यङः संप्रसारण'मित्यत्रैव वक्ष्यमाणत्वात्।

Satishji's सूत्र-सूचिः

TBD.