Table of Contents

<<7-3-10 —- 7-3-12>>

7-3-11 वक्ष्यति अवयवादृतोः

प्रथमावृत्तिः

TBD.

काशिका

पूर्ववर्षिकम्। अपरवार्षिकम्। पुर्वहैमनम्। अपरहैमनम्। यत्र पञ्चमीनिर्देशो न अस्ति जे प्रोष्ठपदानाम् 7-3-18 इत्येवम् आदौ, तदर्थम् उत्तरपदाधिकारः। पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम्। उत्तरपदवृद्धौ सर्वं च 6-2-105 इति उत्तरपदाधिकारे या वृद्धिः इत्येवं विज्ञायते। अवयवादृतोः

7-3-11 । अवयववाचिनः उत्तरस्य ऋतुवाचिनः उत्तरपदस्य च अचामादेः अचः वृद्धिर्

भवति तद्धिते ञिति, णिति, किति च परतः। पूर्ववार्षिकम्। पूर्वहैमनम्। अपरवार्षिकम्। अपरहैमनम्। पूर्वं वर्षाणाम्, अपरं वर्षाणाम् इति एकदेशिसमासः। तत्र भवः 4-3-53) इत्येतसिमिन्नर्थे वर्षभ्यष्ठक् (*4,3.18), हेमन्ताच् च (*4,3.21, सर्वत्र अण् तलोपश्च 4-3-22 इत्यण् प्रत्ययः। तत्र ऋतोर् वृद्धिमद्विधौ अवयवातिति तदन्तविधिः। अवयवातिति किम्? पूर्वासु वर्षासु भवम् पौर्ववर्षिकम्। कालाट् ठञ् 4-3-11 इति ठञ्। अवयवपूर्वस्य एव तदन्तविधिः, न अन्यस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1377 अवयवादृतोः। पूर्वपदादिति। `परस्ये'ति शेषः। ऋतुवाचिन इति। `उत्तरपदस्ये'ति सेषः। पूर्ववार्षिक इति। ऋतिविशेषे वर्णशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः। वर्षाणां पूर्वं-पूर्ववर्षाः, तत्र जात इत्यर्थः। पूर्वापराधरोत्तर'मित्येकदेशिसमासः। अपरहैमन इति। हेमन्तस्यापरम्-अपरहेमन्तः। तत्र जातादिरित्यर्थः। एकदेशिसमासः। अपरहैमन इति। हेमन्तस्यापरम्–अपरहेमन्तः। तत्र जातादिरित्यर्थः। एकदेशिसमासः। `सर्वत्राण्च तलोपश्चे'त्यण्, तलोपश्च, उत्तरपदादिवृद्धिः। पूर्वासु वर्षास्विति। `तद्धितार्थ' इति समासः। आदिवृद्धिरेव, न तु उत्तरपदादि वृद्धिः, पूर्वपदस्य अवयववृत्तित्वाऽभावात्। `वर्षाभ्यष्ठ'गिति ठक्, प्रत्ययविधौ तदन्तविधिप्रतिषेधात्, तत्राह–ऋतोरिति। अवयववाचकानां शब्दानामुपरि स्थिताट्टतुवाचकाद्वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन `येन विधि'रिति सूत्रभाष्यस्थितवचनेन पूर्वत्र=पूर्वमुदाह्मते उदाहरणे तदन्तविधिरित्यर्थः। तथाच पूर्ववार्षिक इत्यत्र `पूर्वहैमन' इत्यत्र चोदाहरणे `वर्षाभ्यष्ठ'गिति ठक्, `सर्वत्राण् च तलोपश्चे'त्यण्तलोपौ च सिध्यन्ति। इह तु नेति। प्रत्युदाहरणे तु तदन्तविधिर्नास्ति। पूर्वासु वर्षास्विति सामानाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाऽभावादित्यर्थः। ततश्च प्रत्युदाहरणे `पौर्ववार्षिक' इत्यत्र `कालाट्ठञि'ति ठञेव, नतु ठक्। स्वरे विशेषः। पौर्वहेमन्तिक इत्यत्रापि ठञेवेति भावः।

तत्त्वबोधिनी

1082 अवयवादृतोः। पूर्ववार्षिक इत्यादि। वर्षाणां पूर्वः, हेमन्तस्यापर इति विग्रहे `पूर्वापराधरोत्तर'मित्येकदेशसमासः। पूर्वास्विति। तद्धितार्थे समासः।\र्\नृतोर्वृद्धिमद्विधाववयवानम्। ऋतोर्वृद्धिमद्विधाविति। ऋतुवाचिनः शब्दाद्वृद्धिनिमित्तकप्रत्ययविधाने तदन्तविधिर्वाच्यः, स चेदृतुवाची शब्दोऽवयवेभ्यः पर इत्यर्थः। पूर्वत्रेति। `पूर्ववाषिकः'अपरहेमन'इत्यत्र। तथा च `वर्षाब्यष्ठक्', `सर्वत्राण्च तलोपश्चे'त्याभ्यां क्रमेण ठगणौ भवतः। वृद्धिमद्विधौ किं?। पूर्वप्रावृषम्। `प्रावृष एण्यः'इत्यत्र तदन्तविध्यभावादिह ऋत्वणेव। इह त्विति। `पौर्ववर्षिक'इत्यत्र। तथा चेह–`कालाट्ठ'ञिति ठञेवेति भावः। अवयवत्वाभावादिति। अन्यथा पूर्वासु वर्षास्वित सामानाधिकरण्यं न सङ्गच्छेतेति भावः।

Satishji's सूत्र-सूचिः

TBD.