Table of Contents

<<7-3-11 —- 7-3-13>>

7-3-12 सुसर्वार्धाज् जनपदस्य

प्रथमावृत्तिः

TBD.

काशिका

सु सर्व अर्ध इत्येतेभ्यः उत्तरस्य जनपदवाचिनः उत्तरपदस्य अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। सुपाञ्चालकः। सर्वपाञ्चालकः। अर्धपाञ्चालकः। जनपदतदवध्योश्च 4-2-124), अवृद्धादपि बहुवचनविषयात् (*4,2.125 इति वुञ्। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1378 सुसर्वार्धाज्जनपदस्य। सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः। उत्तरपदस्य वृद्धिरिति। शेषपूरणम्। सुपाञ्चालक इति। सुपञ्चालेषु जात इत्यर्थः। जनपदेति। `जवपदतदवध्यो'रित्यनुवृत्तौ `अवृद्धादपि बहुवचनविषया'दिति वुञित्यर्थः। ननु `अनृद्धादपी'ति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह–सुसर्वेति। सु, सर्व अर्ध, दिक्शब्द -एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेन `येन विधि'रिति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः।

तत्त्वबोधिनी

1083 सुसर्वा। जनपदतदवध्योरितीति। तस्मिन्ननुवर्तमाने `अवृद्धादपि बहुवचनविषया'दित्यनेनेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.