Table of Contents

<<7-3-17 —- 7-3-19>>

7-3-18 जे प्रोष्ठपदानाम्

प्रथमावृत्तिः

TBD.

काशिका

ज इति जातार्थो निर्दिश्यते। तत्र यः तद्धितो विहितः तस्मिन् ञिति, णिति, किति च परतः प्रोष्थपदानाम् उत्तरस्य अचामादेः अचः वृद्धिर् भवति। प्रोष्ठपदा नाम नक्षत्रम्, ताभिः युक्तः कालः इत्यण्। तस्य लुबविशेषे 4-2-4 इति लुप्। प्रोष्ठपदासु जातः, ऋतुनक्षत्रेभ्यो ऽणित्यण्, प्रोष्थपादः माणवकः। जे इति किम्? यदा प्रोष्थपदो मेघो धरणीमभिवर्षति, प्रोष्थपदासु भवः प्रौष्ठपदः। प्रोष्थपदानाम् इति बहुवचननिर्देशात् पर्यायो ऽपि गृह्यते भद्रपादः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1388 जे प्रोष्ठपदानाम् आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम्। तदाह- -प्रोष्ठपदानामिति। जशब्देन जातार्थप्रत्ययो विवक्षितः। तदाह–जातार्थे इति। `प्रोष्ठपदाना'मिति बहुवचनस्य प्रयोजनमाह बहुवचनेति। भद्रपाद इति। भद्रपदासु जात इत्यर्थः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.