Table of Contents

<<4-3-10 —- 4-3-12>>

4-3-11 कालाट् ठञ्

प्रथमावृत्तिः

TBD.

काशिका

कालविशेषवाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। अणो ऽपवादः। वृद्धात् तु छं परत्वाद् बाधते। मासिकः। आर्धमासिकः। सांवत्सरिकः। यथाकथञ्चिद् गुणवृत्त्या अपि काले वर्तमानात् प्रत्यय इष्यते। कादम्बपुष्पिकम्। व्रैहिपलालिकम्। तत्र जातः 4-3-25 इति प्रागतः कालाधिकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1087 कालवाचिभ्यष्ठञ् स्यात्. कालिकम्. मासिकम्. सांवत्सरिकम्. (अव्ययानां भमात्रे टिलोपः). सायम्प्रातिकः. पौनः पुनिकः..

बालमनोरमा

1361 कालाट्ठञ्। `कालशब्दस्यैव न ग्रहणं, किन्तु कालशब्दस्य, कालविशेषवाचकानां च ग्रहण'मिति `तदस्य परिमाणं' `सङ्ख्यायाः' इति सूत्रभाष्ये स्पष्टम्। तदाह– कालवाचिभ्य इति। सायंप्रातिकः पौनःपुनिक इति। `अव्ययानां भमात्रे' इति टिलोपः। `सायञ्चिर'मिति ठ्युठ्युलौ तु न भवतः, `नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात्। शार्वरस्येति। समानकालिकं प्राक्रालिकमिति भाव्यमित्यर्थः। प्रामाणिका इति। केचित्तु अमुकः पुरतः परेद्युरित्यादिवदेतेऽपि शब्दा अव्युत्पन्नाः, पृष्टोदरादयो वा साधव इत्याहुः। इति यावदिति। व्याख्यानादिति भावः।

तत्त्वबोधिनी

1072 कालाट्ठञ्। स्वरूपस्यैव न ग्रहणं, संधिवेलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशी–प्रभृतिभ्योऽवृद्धेभ्योऽपि ठञ्वाधनार्थमण्विधानात्। किं तु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाह—कालावाचिभ्य इति। यत्तु `स्वरूपस्य पर्यायाणां च न ग्रहण 'मिति पदमञ्जर्यादिषु स्थितम्। तदसत्। `कालिकः संबन्धः', `कालिकी व्याप्ति'रित्यादिप्रयोगाऽनापत्तेः। न च विशेषाणामेव सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽण्विधानं ज्ञापकमिति वाच्यं, तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात्। गौणमुख्यन्यायस्त्विह नाश्रीयते। तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद्व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं व्रैहिपलालिकमित्याकरः। अत्रहि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः। न च पुष्पदिशब्दानां कालो मुख्य एवार्थः, `लुबविशेषे'इति व्युत्पादनात्, तथा च कालविशेषणमुक्तार्थे न प्रमाणमिति वाच्यं, पुष्यादिसमीपस्थचन्द्रमसा युक्ते काले पुष्यादिशब्दानां गौणत्वात्। `लुबविशेषे'इति शास्त्रमपि गौणवृत्तित्वान्वाख्यायकमेवेति दिक्। एवं स्थिते `कालवाचिभ्य'इति मूलस्य `कालप्रतिपादकेभ्यः'इति फलितोऽर्थः।

Satishji's सूत्र-सूचिः

TBD.