Table of Contents

<<4-3-21 —- 4-3-23>>

4-3-22 सर्वत्र अण् च तलोपश् च

प्रथमावृत्तिः

TBD.

काशिका

हेमन्तशब्दादण् प्रत्ययो भवति, तत्संनियोगेन च अस्य तकारलोपः। हैमनं वासः। हेइमनम् उपलेपनम्। सर्वत्रग्रहणं छन्दो ऽधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्र एतद् भवति। ननु च छन्दसि इति न अनुवर्तिष्यते? सैवाननुवृत्तिः शब्देन अख्यायते प्रत्यत्नाधिक्येन पूर्वसूत्रे ऽपि सम्बन्धार्थम्। हैमन्तिकम् इति भाषायाम् अपि ठञं स्मरन्ति। अथ अण् च इति चकारः किम् अर्थः? अण्, यथाप्राप्तं च ऋत्वणिति। कः पुनरनयोर् विशेषः? ऋत्वणि हि तकारलोपो न अस्ति हैमन्ति पङ्क्ती पङ्क्तिः इति। तदेवं त्रीणि रूपाणि भवन्ति, हैमन्तिकम्, हैमन्तम्, हैमनम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1370 सर्वत्राऽण्च। छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम्। लोके वेदे चेत्यर्थः। `हेमन्ताच्चे'ति पूर्वसूत्राद्धेमन्तादित्यनुवर्तते। तदाह– हेमन्तादित्यादिना। ननु `सर्वत्राऽण् तलोपश्चे'त्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह–चकारादिति। हैमनमिति। `हेमन्ते'त्यत्र तकारात्प्राग् नकारस्यानुस्वारपरसवर्णौ स्थितौ। तत्र तकाराकारसमुदायस्य लोप इति पक्षे `अ'निति प्रकृतिभावान्न टिलोपः। तकारस्यैव लोप इति पक्षे तु अकारस्य `यस्येति चे'ति लोपे तस्य आभीयत्वेनासिद्धत्वात्स्थानिवत्त्वाद्वा न टिलोपः। हैमन्तमिति। ऋत्वणि रूपम्। अत्र न तलोपः, तस्य एतत्सूत्रप्रतिपदोक्ताऽणा संनियोगशिष्टत्वादिति भावः।

तत्त्वबोधिनी

1078 सर्वत्राण्च। हेमन्तादिति। एतच्च `हेमन्ताच्चे'त्यतोऽनुवृत्तमिति भावः। हैमनमिति। अकारविशिष्टस्य तशब्दस्य लोपे `अन्' इति प्रकृतिभावात् `नस्तद्धिते'इति टिलोपो नेति बोध्यम्। हैमन्तमिति। ऋत्वणि तकारलोपो न भवति, तस्य `सर्वत्रा'णिति प्रतिपदोक्तेन अणा सन्नियोगशिष्टत्वात्। एतच्च प्रत्याख्यातं भाष्ये। तथाहि– हेमन्तपर्यायो हेमन्शब्दोऽप्यस्ति, `हेमन्नागनीगन्ति कर्णौ' इत्यादि प्रयोगात्, ततश्च हेमन्–हेमन्त शब्दाभ्यामृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्। छन्दसि तु `हेमन्ताच्चे'ति ठञा `हैमन्तिक'मिति तृतीयमपि रूपं सिध्यति। न च विशेषविहितेन ठञा अणो बाधः शङ्क्यः। छन्दसि सर्वविधीनां वैकल्पिकत्वात्। वृत्तिकृता तु `हेमन्ताच्चे'ति सूत्रे सर्वत्रग्रहणमपकृष्य लोकेऽपि हैमन्तिकमिति स्वीकृतम्।

Satishji's सूत्र-सूचिः

TBD.