Table of Contents

<<7-3-102 —- 7-3-104>>

7-3-103 बहुवचने झल्येत्

प्रथमावृत्तिः

TBD.

काशिका

बहुवचने झलादौ सुपि परतो ऽकारान्तस्य अङ्गस्य एकारादेशो भवति। व्कृक्षेभ्यः। प्लक्षेभ्यः। वृक्षेषु। प्लक्षेषु। बहुवचने इति किम्? वृक्षाभ्याम्। प्लक्षाभ्याम्। झलि इति किम्? वृक्षाणाम्। सुपि इत्येव, यजध्वम्। पचध्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

145 झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः. रामेभ्यः. सुपि किम्? पचध्वम्..

बालमनोरमा

203 भ्यसि न विभक्ताविति सस्य नेत्त्वम्। सुपि चेति दीर्घे प्राप्ते–बहुवचने झल्येत्। `अतो दीर्घो यञी'त्यतः `सुपि चे'त्यतश्च `अत' इति `सुपी'ति चानुवर्तते। `झली'त्यनेन `सुपी'ति विशेष्यते। `यस्मिन् विधि'रिति तदादिविधिस्तदाह–झलादाविति। अतोऽङ्गस्येति। अदन्तस्याङ्गस्येत्यर्थः। एत्वे सति रुत्वविसर्गौ सिद्धवत्कृत्याह- -रामेभ्य इति। राम इति। अयोगवाहानामकारोपरि शर्षु चोपसंख्यातत्वेन विसर्गस्य झल्त्वात्स्थानिवद्भावेन सुप्त्वाच्च तस्मिन् परत एत्वं प्राप्तं, रुत्वविसर्गयोरसिद्धत्वेऽपि राम–सिति दशायां झलादिसुप्परत्वात्। अतो बहुवचनग्रहणमित्यर्थः। रामस्येति। बहुवचनग्रहणस्य प्रयोजनान्तरम्। षष्ठ\उfffदेकवचनस्य ङसः स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात्स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थं बहुवचनग्रहणमित्यर्थः। संनिपातपरिभाषा तु `सर्वेषा'मिति निर्देशादेत्वविधौ न प्रवर्तत इत्याहुः। झलि किमिति। `उतो वृद्धिर्लुकि हलीत्यतो हली'त्यनुवर्त्त्य हलादौ बहुवचने सुपि एत्वमित्येव व्याख्यातु शक्यते। तावतैव `रामा' इत्याद्यजादिबहुवचने एत्वनिरासादिति प्रश्नः। रामाणामिति। `हलादौ बह#उवचने सुपि एत्व'मित्युक्तौ रामाणामित्यत्राप्येत्वं स्यात्। तन्निवृत्त्यर्थं झल्ग्रहणमित्यर्थः। यद्यप्यत्र संनिपातपरिभाषया ह्यस्वान्ताङ्गसंनिपातमुपजीव्य प्रवृत्त्स्य नुटस्तद्विघातकमेत्वं प्रति निमित्तत्वाऽसंभवादेव एत्वं न भविष्यति, तथापि झल्ग्रहणमेत्वे संनिपात परिभाषाया अप्रववृत्तिज्ञापनार्थम्। तेन `हलि सर्वेषा'मिति निर्देशात्सर्वशब्दे एत्वसिद्धावपि वि\उfffदोषामित्यादावेप्यत्वं भवति। पचध्वमिति। ध्वमो झलादिबहुवचनत्वेऽपि सुप्त्वाऽभावान्न तस्मिन् परत एत्वमित्यर्थः। नच `बहुवचने झली'गित्योवास्तु। कित्त्वादन्तावयवे आद्गुणे च `रामेभ्य' इत्यादिसिद्धेरिति वाच्यम्, एवं सति `ओसि चे'त्युत्तरसूत्रेऽपि इगागमविधौ ज्ञानयोरित्यत्र `इकोऽचि विभक्ता'विति नुमापत्तेः। \र्\नथ पञ्चमीविभक्तिः। तत्र `उपदेशेऽजनुनासिक इ'दिति ङसेरिकार इत्। तस्य लोपः। ङकारस्तु लशक्विति इत्। तस्य लोपः। ङकारस्तु लशक्विति इत्। तस्य लोपः। तदुभयोच्चारणं तु `ङसिङ्योः' `घेर्ङिती'त्याद्यर्थम्। `टाङसिङसा'मिति आत्। सवर्णदीर्घः। जश्त्वमिति। `झलां जशो।ञन्ते' इति नित्यतया जश्त्वं प्राप्तम्। तदपवादश्चत्र्वविकल्प आरभ्यत इत्यर्थः।

तत्त्वबोधिनी

171 रामः। रामस्येति। यद्यपि रामस्येत्यत्र संनिपातरिभाषयाप्येत्त्वं सुपरिहरम्, तथापि `अदः सर्वेषा'मिति निर्देशादेत्त्वविधौ संनिपातपरिभाषा न प्रवर्तत इत्याशयेनोक्तमिति स्थितस्य गतिः समर्थनीया।

Satishji's सूत्र-सूचिः

64) बहुवचने झल्येत् 7-3-103

वृत्ति: झलादौ बहुवचने सुँपि, अतोऽङ्गस्यैकारः । The ending अकार: of a अङ्गम् is changed to एकार: when followed by a plural सुँप् affix beginning with a झल् letter.

गीतासु उदाहरणम् – श्लोकः bg6-18

सर्वकाम + भ्यस् = सर्वकामेभ्य: