TBD.
अर्वनित्येतस्य अङ्गस्य तृ इत्ययम् आदेशो भवति, सुश्चेत् ततः परो न भवति, स च नञ उत्तरो न भवति। अर्वन्तौ। अर्वन्तः। अर्वन्तम्, अर्वतौ, अर्वतः। अर्वता, अर्वद्भ्याम्, अर्वद्भिः। अर्वती। आर्वतम्। असौ इति किम्? अर्वा। अनञः इति किम्? अनर्वाणौ। अनर्वाणः। अनर्वाणं वृषभं मन्द्रजिह्वम्।
TBD.
294 नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ. अर्वन्तौ. अर्वन्तः. अर्वद्भ्यामित्यादि..
असौ इति छेदः। न विद्यते नञ् यस्येति बहुव्रीहिः। अङ्गस्येत्यधिकृतम् अर्वणा विशेष्यते। तदाह–नञा रहितस्येत्यादिना। ऋकार इत्। `अलोऽन्त्यस्ये'ति नस्य तः। उगित्त्वान्नुमिति। `उगिदचा'मित्यनेनेति भावः। अर्वन्ताविति। नुमो नस्य `नश्चापदान्तस्ये'ति अनुस्वारः, परसवर्ण इति भावः। शसादावचि असर्वनामस्थानत्वान्नुम् नेति मत्वाह-अर्वत इति। अर्वद्भ्यामिति। `स्वादिषु' इति पदत्वाज्जश्त्वमिति भावः। इत्यादीति। अर्वद्भिः। अर्वते। अर्वद्भ्यः। अर्वतः अर्वतोः अर्वताम्। अर्वति। अर्वत्सु। अनञः किमिति। `अनञः' इत्यस्य किं प्रयोजनमित्यर्थः। अनर्वा यज्ववदिति। अनर्वन्शब्दो यज्ववदित्यर्थः। शसादावचि `न संयोगाद्वमन्ता'दित्यल्लोपो नेति बावः। पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः।
325 अर्वणस्तृ।`अङ्गस्ये'ति वर्तते, तच्चाऽर्वणा विशेष्यते, `अनञ'इत्यनेनापि, तदाह–नञा रहितस्येत्यादि। `असा'विति परयुदासे विभक्तौ परत एव स्यात्, ततश्चाऽर्वतीत्यादौ न स्यादित्याशयेनाह–न तु साविति। नचैवमर्वप्रिय इत्यादावतिप्रसङ्गः, अङ्गेन स्वनिमित्तस्य प्रत्ययस्याऽऽक्षेपाल्लुका लुप्तत्वेनाऽत्र प्रत्ययलक्षणाऽभावात्। एतेन `वाहैरलुप्यत सहस्त्रगर्वगर्वः'इति श्रीहर्षप्रयोगो व्याख्यातः। नन्वेवं, `स्थानिवदादेशः'इति सूत्रे `धात्वङ्गकृत्तद्धिताब्ययसुप्तिङ्पदादेशाः स्थानिवत्स्यु'रिति प्राचो ग्रन्थमनूद्य—`त\उfffद्त्क परिगणनुदाहरणमात्रं वे ति विकल्प्य,`नान्त्यः, अब्ययस्याङ्गपदाभ्यां पृथग्ग्रहणवैयथ्र्या'दिति मनोरमायां यदुक्तं तत्कथं सङ्गच्छेत?, अव्ययस्योक्तिरीत्याऽनङ्गत्वात्। न च `न लुमते'त्यनेनाऽङ्गकार्यनिषेधेऽप्यङ्गसंज्ञाया अनिषेधान्नोक्तदोष इति वाच्यम्, प्रत्यये परतः पूर्वस्य यत्कार्यमाङ्गमनाङ्गं वा तत्सर्वं `न लुमते'त्यनेन निषिध्यते इथि `यङोऽचु चे'ति सूत्रस्थमनोरमाग्रन्थपर्यालोचनया लुमताशब्देन लुप्तेऽङ्गसंज्ञाया अप्यस्वीकार्यत्वात्। तस्या अपि प्रत्यये परतः पूर्वस्य कार्यत्वात्। यदि तु लुका लुप्तेऽप्यङ्गत्वं स्वीक्रियते, तदाऽयं ग्रन्थो `यचि भं'`वृषण्वस्व\उfffदायो'रित्यत्र `वृष वर्षुकं'वसु धनं यस्य वृषण्वसु, वृषा अ\उfffदाओ यस्य वृषण\उfffदा'इत्युदाह्मत्म भत्वादिह नलोपो न भवति, अल्लोपस्तु अनङ्गत्वान्नेट'ति मूले वैदिकप्रक्रियायां वक्ष्यमाण ग्रन्थेन सह विरुध्यते। नच `अल्लोपोऽनः'इत्यत्रा`ऽङ्गावयवोऽसर्वमानस्थानयजादिस्वादिपरो योऽ'निति व्याख्यानादल्लोपस्य तत्र प्राप्त्यभावादनाङ्गत्वादिति समाधानं व्यर्थमिति भ्रमितव्यम्, भसंज्ञयैव `यजादिस्वादिपरोयोऽ'निति व्याख्यानावद्वस्व\उfffदायोः परतो योऽनिति व्याख्यानस्यापि लभात्। तस्मात्पदात्पृथगित्येव वक्तव्ये अङ्गपदाभ्यामित्यङ्गग्रहणं रभसकृतमेवेति चेदत्राहुः–`न लुमते'ति सूत्रे लुमतालुप्ते तन्निमित्ताङ्गसंज्ञकस्य कार्यं नस्यादिति यदा व्याख्यायते, तदा `अर्वणस्तृ'इत्यद्यङ्गकार्याऽवृत्तावप्यङ्गसंज्ञाया निर्बाधत्वादङ्गग्रहणं तत्रत्यं सम्यगेव। यदात्वाङ्गमनाङ्गं वेत्यादिमनोरमाग्रन्थस्यानङ्गत्वादिति मूलग्रन्थस्य च स्वारस्यपर्यालोचनया लाघवादव्ययस्याङ्गत्वे फलाभावाच्च प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते, तदा त्वविशेषेणाऽङ्गसंज्ञाया अपि निषेधादङ्गग्रहं तत्र रभसकृतमेव। न च `न लुमते'त्यनेनाङ्गसंज्ञानिषेधे `युवोरनाका'विति सूत्रस्थभाष्यकैयटाभ्यां विरोधः स्यादिति वाच्यं, तयोस्तत्र प्रौढवादेन प्रवृत्तत्वात्। तथाच `न लुमत तस्मि'न्निति सिद्धान्तः, प्रत्यये परतः पूर्वस्य कार्यं निषिध्यते`इति मनोरमाग्रन्थश्च स्वरसतः सङ्गच्छत इति। ननु ऋधातोर्विचि गुणे च `अ'रिति रूपं, तस्मान्मतुपि अर्वन्तावित्यादि सेत्स्यति, `छन्दसीवनिपा'विति वनपि वेदे `अर्वे'ति सेत्स्यति। ऋधोरोरेव `स्त्रामदिपद्यत्र्ती'त्यादिना वनिपि तु लोकेऽप्यर्वेति सेत्स्यति। रूढिशब्दश्चायं, `वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः'इत्यमरकोशात्। ततश्चार्थोऽपि न भिद्यत इति किमनेन सूत्रेणेति चेदत्राहुः–नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्ते सौ परे नञ्पूर्वपदे च नान्तस्य प्रयोगो भवत्यन्त्र तचु नान्तस्य प्रयोगो न भवतीति व्यवस्थार्थमिदं, `तृज्वत्क्रोष्टु'रिति त्रिसूत्रीवदिति। यत्तु केश्चिदुक्तम्— `अर्वन्मघवन्शब्दयोरपि भाषायामसाधुत्वमेव। 'अर्वणस्तृ मघोनश्च न शिप्यं धान्दसं हि तत्। मतुब्वन्योर्विधानाच्च धन्दस्युभयदर्शमात्'इति वार्तिकादिति। तदापाततः, वार्तिकस्य वनिबन्तमध्योदात्तपरत्वात्। छन्दस्येव वनिब्व#इधानात्। तथाच श्रीहर्षः- –`वाहैरलुप्यत सहस्त्रद्दगर्वगर्वः'इति प्रायुङ्लः। अर्वन्तौ अर्वन्त इति। व्यपदेशिवद्भावेनाऽर्वन्नन्तत्वाव्रादेशः। न च व्यवदेशिवद्भावोऽप्रातिपदिकेनेति वाच्यं, तस्य प्रत्ययविधिविषयत्वात्।
TBD.