Table of Contents

<<6-2-36 —- 6-2-38>>

6-2-37 कार्तकौजपाऽदयश् च

प्रथमावृत्तिः

TBD.

काशिका

कार्तकौजपादयो ये द्वन्द्वाः तेषु पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति। विभक्त्यन्तानां पाठो वचनविवक्षार्थः। चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः। कार्तकौजपौ। कृतस्य अपत्यं, कुजपस्य अपत्यम् इत्यणन्तावेतौ। सावर्णिमाण्डूकेयौ। सावर्णिरिञन्तः। अवन्त्यश्मकाः। अवन्तेरपत्यानि वहूनि, तन्निवासो जनपदो ऽवन्तयः। तथा अश्मकाः। पैलश्यापर्णेयाः। युवद्वन्द्वो ऽयम्। पीलायाः अपत्यं पैलः, तस्य अपत्यं युवा इति अणो द्व्यचः 4-1-156 इति विहितस्य फिञः पैलादिभ्यश्च 2-4-59 इति लुक्। श्यापर्णशब्दो बिदादिः, तस्य अपत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः। बहुवचनमतन्त्रम्, तेन पैलश्यापर्णेयौ इत्यत्र अपि भवति। कपिश्यापर्णेयाः। कपिरन्तोदात्तः, तस्य अपत्यं बहुत्वे कपिबोधाङ्गिरसे 4-1-107 इति उत्पन्नस्य यञः यञञोश्च इति लुक्, तेन अत्र बहुत्वम् आश्रीयत एव। शैतिकाक्षपाञ्चालेयाः। शितिकाक्षो नाम ऋषिः, तस्य अपत्यम् इति ऋष्यण्, तदपत्ये यूनि य इञ् तस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः 2-4-58 इति लुक्। पाञ्चालस्य अपत्यं स्त्री पाञ्चाली, तदपत्यम् युवा पाञ्चालेयः। अत्र अपि बहुवचनम् अविवक्षितम् इति शैतिकाक्षपञ्चालेयौ इत्यत्र अपि भवति। कटुकवार्चलेयाः। कटुकस्य अपत्यम् इति अत इञ् 4-1-95), तस्य बह्वच इञः प्राच्यभरतेषु (*2,4.66 इति बहुषु लुक्। वर्चलायाः अपत्यं वार्चलेयः। शाकलशुनकाः। शकलस्य अपत्यं शाकल्यः, तस्य छात्राः शाकलाः। कण्वादिभ्यो गोत्रे 4-2-111 इत्यण्। शुनकस्य अपतय्म् इति बिदादिभ्यो ऽञ् 4-1-104, तस्य बहुषु लुक्। शाकलशणकाः इति केचित् पठन्ति। तेषां शणकशबादुत्पन्नस्य इञः बह्वच इञः प्राच्यभरतेषु 2-4-66 इति बहुषु लुक्। शुनकधात्रेयाः। धात्र्या अपत्यं धात्रेयः। शणकबाभ्रवाः। बभ्रोरपत्यं बाभ्रवः। आर्चाभिमौद्गलाः। ऋचाभेन प्रोक्तम् अधीयते आर्चाभिनः। वैशम्पायनान्तेवासित्वात् णिनिः। मुद्गलः कण्वादिः, तदपत्यस्य छात्रा मौद्गलाः। कुन्तिसुराष्ट्राः। कुन्तेः सुराष्ट्रस्य च अपत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वो ऽयम्। कुन्तिचिन्तिशब्दौ अन्तोदात्तौ। चिन्तिसुराष्ट्राः कुन्तिसुराष्ट्रवत्। तण्डवतण्डाः। पचाद्यच्प्रत्ययान्तौ अन्तोदात्तौ एतौ गर्गादिषु पठ्येते। तत्र अपत्यबहुत्वे यञो लुक् क्रियते। गर्गवत्साः। अत्र अपि अपत्येषु बहुषु इञः बह्वच इञः प्राच्यभरतेषु 2-4-66 इति लुक् क्रियते। बाभ्रवशालङ्कायनाः। बभ्रोरपत्यं बाभ्रवः। शलङ्कु शलङ्कं च इति शालङ्कायनः। बाभ्रवदानच्युताः। दानच्युतशब्दातिञः बह्वचः इति लुक्। कठकालापाः। कठेन प्रोक्तम् अधीयते कठाः, वैशम्पायनान्तेवासित्वात् णिनिः, तस्य कठचरकाल् लुक्। कलापिना प्रोक्तमधीयते कालापाः। कलापिनो ऽण् 4-3-108) इत्यण् प्रत्ययः, तस्मिनिनण्यनपत्ये (*6,4.164 इति प्रकृतिभावे प्राप्ते न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पि इत्यादिनोपसङ्ख्यानेन टिलोपः। कठकौथुमाः। कुथुमिना प्रोक्तमधीयते इति प्राग्दीव्यतो ऽण् 4-1-83, तस्य पूर्ववत् टिलोपः। कौथुमलौकाक्षाः। लोकाक्षेण प्रोक्तम् अधीयते लौकाक्षाः। लोकाक्षस्य वा अपत्यं लौकाक्षिः, तस्य छात्राः लौकाक्षाः। स्त्रीकुमारम्। स्त्रीशब्दो ऽन्तोदात्तः। मौदपैप्पलादाः। मुदस्य अपत्यं मौदिः। तस्य छात्रा मौदाः। तथा पैप्पलादाः। मौदपैप्पलादाः इति द्विः पठ्यते, तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वम् एव यथा स्यादिति। वत्सजरत्। वत्सश्च जरच् च। वत्सशब्दो ऽन्तोदात्तः। सौश्रुतपार्थवाः। सुश्रुतस्य पृथोश्च छात्राः, प्राग्दीव्यतो ऽण् 4-1-83। जरामृत्यू। याज्यानुवाक्ये। यजेर्ण्यत्, यजयाचरुचप्रवचर्चश्च 7-3-66) इति कुत्वाभावः। तत्स्वरितम् (*6,1.185 इत्यन्तस्वरितः। अनुवाक्या इति वचेरनुपूर्वात् ण्यत्। आचार्योपसर्जनान्तेवासिनाम् इह पाठः प्रप्ञ्चार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.