Table of Contents

<<6-2-35 —- 6-2-37>>

6-2-36 आचार्यौपसर्जनश् च अन्तेवासी

प्रथमावृत्तिः

TBD.

काशिका

आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वः, तत्र पूर्वपदं प्रकृतिस्वरं भवति। आपिशलपाणिनीयाः। पाणिनीयरौढीयाः। रौढीयकाशकृत्स्नाः। अपिशलस्यापत्यमापिशलिराचर्यः, अत इञ् 4-1-95)। तेन प्रोक्तम् आपिशलम्, इञश्च (*4,2.112 इत्यण्। तदधीयते ये ऽन्तेवासिनः ते ऽप्यापिशलाः, प्रोक्ताल् लुक् 4-2-64 इति तस्य तद्धितस्याध्येतरि विहितस्य लुक् क्रियते। आपिशलेर् वा छात्राः आपिशलाः, इत्युभयथाप्याचर्योपसर्जनश्चान्तेवासी भवति। आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्वः आचार्योपसर्जनो यथा विज्ञायेत। इह मा भूत्, पाणिनियदेवदत्तौ। आचार्योपसर्जने इति किम्? छान्दसवैयाकरणाः। अन्तेवासी इति किम्? आपिशलपाणिनीये शास्त्रे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.