TBD.
पैल इत्येवम् आदिभ्यश्च युवप्रत्ययस्य लुग् भवति। पीलाया वा 4-1-118 इत्यण्, तस्मदणो द्व्यचः 4-1-156 इति फिञ्, तस्य लुक्। पैलः पिता। पैलः पुत्रः। अन्ये पैलाऽदयः इञन्ताः तेभ्यः इञः प्राचाम् 2-4-60 इति लुकि सिद्धे ऽप्रागर्थः पाठः। पैल। शालङिक। सात्यकि। सात्यकामि। दैवि। औदमज्जि। औदव्रजि। औदमेघि। औदबुद्धि। दैवस्थानि। पैङ्गलायनि। राणायनि। रौहक्षिति। भौलिङ्गि। औद्गाहमानि। औज्जिहानि। तद्राजाच्चाणः। आकृतिगणो ऽयम्।
TBD.
–
1067 पैलादिभ्यश्च। `ण्यक्षत्रियार्षे'त्यतो यूनि लुगित्यनुवर्तते। तदाह–एभ्यां युवप्रत्ययस्य लुगिति। अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम्। पीलाया इति। पीलाया गोत्रापत्यमित्यर्थे `स्त्रीभ्यो ढ'गिति ढकं बाधित्वा `पीलाया वे'त्यणित्यर्थः। तस्मादिति। पैलस्यापत्यं युवेत्यर्थे पैलादिभ्यश्चे'ति लुक् `अमो द्व्यचः' इति फिञित्यर्थः। पीलाया गोत्रापत्यस्यापत्यं। पीलाया युवापत्यमिति पर्यवस्यति। तस्येति। तस्य-युवार्थकफिञ्प्रत्ययस्य अनेन लुगित्यर्थः। पीलाया गोत्रापत्ये, युवापत्ये च पैलशब्द इत्याह–पैलः पिता पुत्रश्चेति। यूनः पिता, युवा चेत्यर्थः। `तद्राजाच्चाऽणः'इति पैलादिगणसूत्रम्। तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याऽणो लुगित्यर्थः। द्व्यञ्मगधेति। अङ्गशब्दो देशविशेषे तस्य राजा आङ्गः। तस्य गोत्रापत्यमप्याङ्गः। `द्व्यञ्मगधे'त्यण्। तस्यापत्यं युवाप्याङ्ग एव। `अणो द्व्यचः' इति फिञ्, तस्यानेन लुक्।
894 युवप्रत्ययस्येति। वक्ष्माण इति। `प्राचामवृद्धात्फिन्बहुल'मिति वक्ष्यमाणः। अजादौ किम्?। ग्लौचुकायनरूप्यम्। प्राग्दीव्यटतीये किम्?ष ग्लौचुकायनीयम्। `तस्मै हित'मिति छः। इह `द्विगोर्लुग नपत्येऽचि' `यूनि गोत्रे ने'त्येव सूत्रयितव्यम्। तथा च `लुगलुग्ग्रहणं शक्यमकर्तुं'मिति मनोरमायां स्थितम्। तत्र `फिक्फिञो'रिति सूत्रे `यूनी'त्यस्य मण्डूकप्लुतिराश्रयणीयेति क्लेशोऽयं लाघवानुरोधेन सोढव्य इति भावः। पैलदिभ्यश्च। `ण्यक्षत्रियार्षे'त्यतो `यूनि लु'गिति वर्तते। तदाह—।
TBD.