Table of Contents

<<4-1-103 —- 4-1-105>>

4-1-104 अनृष्यानन्तर्ये बिदाऽदिभ्यो ऽञ्

प्रथमावृत्तिः

TBD.

काशिका

गोत्रे इत्येव। बिदादिभ्यो गोत्रापत्ये अञ् प्रत्ययो भवति। बैदः। और्वः। ये पुनरत्र अनृषिशब्दाः पुत्रादयस्तेभ्यो ऽनन्तरापत्ये एव भवति। पौत्रः। दौहित्रः। अनृष्यानन्तर्यस्य अयम् अर्थः, अनृषिभ्यो ऽनन्तरे भवति इति। यद्ययम् अर्थः, ऋष्यपत्ये नैरन्तर्यप्रतिषेधो न कृतः स्यात्? तत्र इदं न सिध्यति, इन्द्रभूः सप्तमः काश्यपानाम्। अनन्तरापत्यरूपेण एव ऋष्यणाभिधानं भविष्यति। अवश्यं च एतदेवं विज्ञेयम्। ऋष्यपत्ये नैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको विश्वामित्रः इति दुष्यति। गोत्रे इत्येव, बैदिः। ननु च ऋष्यणा भवितव्यम्? बाह्वादिः आकृतिगणः, तेन इञेव भवति। बिद। उर्व। कश्यप। कुशिक। भरद्वाज। उपमन्यु। किलालप। किदर्भ। विश्वानर ऋष्टिषेण। ऋतभाग। हर्यश्व। प्रियक। आपस्तम्ब। कूचवार। शरद्वत्। शुनक। धेनु। गोपवन। शिग्रु। बिन्दु। भाजन। अश्वावतान। श्यामाक। श्यमाक। श्यापर्ण। हरित। किन्दास। वह्यस्क। अर्कलूष। वध्योष। विष्णुवृद्ध। प्रतिबोध। रथान्तर। रथीतर। गविष्ठिर। निषाद। मठर। मृद। पुनर्भू। पुत्र। दुहितृ। ननान्दृ। परस्त्री परशुं च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1019 एभ्योऽञ् गोत्रे. ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे. बिदस्य गोत्रं बैदः. बैदौ. बिदाः. पुत्रस्यापत्यं पौत्रः. पौत्रौ. पौत्राः. एवं दौहित्रादयः..

बालमनोरमा

1090 अनृष्यानन्तर्ये। `अनृषी'ति लुप्तपञ्चमीकम्। बिदादिभ्योऽञिति द्विरावर्तते। तथा च `अनृष्यानन्तर्ये विदादिभ्योऽ'ञिति कृत्स्नमेकं वाक्यं। `बिदादिभ्योऽ'ञिति वाक्यान्तरं। तत्र द्वितीयं वाक्यं व्याचष्टे–एभ्योऽञ्गोत्रे इति। गोत्रे विवक्षिते विदादिभ्योऽञ्स्यादित्यर्थः।\र्\नथ प्रथमं वाक्यं कृत्सनसूत्रं व्याचष्टे–ये त्विति। अनृषिभ्यो विदादिभ्योऽनन्तरापत्येऽञ्स्यादित्यक्षरार्थः। विदादौ हि ऋषयोऽनृषयश्च पठिताः। तत्र येऽनृषयस्तेभ्योऽनन्तरापत्येऽञिति फलितमिति भावः। नन्वानन्तर्ये इति श्रवणादनन्तर इति कथमित्यत आह–सूत्रे स्वार्थे ष्यञिति। `अनन्तरशब्दा'दिति शेषः। चतुर्वर्णादित्वादिति भावः। बिदस्य गोत्रापत्यं बैद इति। बिदस्य ऋषित्वात्ततो गोत्र एवाऽञिति भावः। ऋष्यणोऽपवादः। स्वरे विशेषः। नन्वनन्तरापत्येऽञभावे इञपवाद ऋष्यणेवोचित इति कथमनन्तरो वैदिरित्यत आह– बाह्वादेरिति। बिदादिगणस्थादनृषेरनन्तरात्येऽञमुदाहरति–पौत्रो दौहित्र इति। पुत्रस्यानन्तरापत्यमिति, दुहितुरनन्तरापत्यमिति च विग्रहः। यथायथमणिञोपरपवादेऽञ्।

तत्त्वबोधिनी

911 अनृष्या। `अनृषी'ति पञ्चम्याः सौत्रो लुक्। अनृषिभ्य इत्यर्थः। सूत्रे इति। आनन्तर्य [इत्यत्र] इत्यर्थः। स्वार्थ इति। चातुर्वण्र्यादेराकृतिगणत्वादिति भावः। बैदिरित्यत्र ऋष्यणमाशङ्क्याह—बाह्वादेरिति। बिद, उर्व, कश्यप,, कुशिक, भरद्वाज, उपमन्यु, वि\उfffदाआनर, `परस्त्री परशुं च' इत्यादि।

Satishji's सूत्र-सूचिः

TBD.