Table of Contents

<<6-2-37 —- 6-2-39>>

6-2-38 महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु

प्रथमावृत्तिः

TBD.

काशिका

प्रकृत्या पूर्वपदम् इति वर्तते, द्वन्द्वे इति निवृत्तम्। महानित्येतत् पूर्वपदं व्रीहि अपराह्ण गृष्टि इष्वास जाबाल भार भारत हैलिहिल लौरव प्रवृद्ध इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति। महव्रीहिः। महापराह्णः। महागृष्टिः। महेष्वासः। महाजाबालः। महाभारः। महाभारतः। महाहैलिहिलः। महारौरवः। महाप्रवृद्धः। महच्छब्दो ऽन्तोदात्तः, तस्य रतिपदोक्तो यः समासः सन्महत्परमोत्कृष्टाः पूज्यमानैः 2-1-61 इति तत्र एष स्वरः। तेन एषां षष्ठीसमासो ऽन्तोदात्त एव भवति, महतो व्रीहिः महद्व्रीहिः इति। कर्मधारये ऽनिष्ठा 6-2-46 इत्ययम् अपि श्रेण्यादिसमासे विधिः इति प्रवृद्धशब्दः इह पठ्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.